Enter your Email Address to subscribe to our newsletters



- एससी वर्गस्य विद्यार्थिभ्यः प्रतिमासं लप्स्यते दशसहस्र रुप्यकाणां छात्रवृत्तिः
भोपालम्, 07 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्रिणो मोहन यादवस्य अध्यक्षतायां मङ्गलवासरे मन्त्रालये सम्पन्नायां मन्त्रिपरिषदः उपवेशने बहवः महत्त्वपूर्णनिर्णयाः स्वीकृताः। तेषु भोपाले “फाइनेंशियल ट्रेनिंग एण्ड रिसर्च इन्स्टिट्यूट” (एफटीआरआई) स्थापनेन सह उज्जयिनीनगरस्य विमानस्थानकविकासार्थं ५९० कोटिरूप्यकाणां स्वीकृतिः प्रदत्ता। अतिरिक्ततया अनुसूचितजातिवर्गस्य छात्राणां कृते प्रतिमासं दशसहस्ररूप्यकाणां छात्रवृत्तिः अपि अनुमोदिता।
प्रदेशस्य एमएसएमई मन्त्री चेतन्य कुमार काश्यप उक्तवान् यत् राज्ये वित्तप्रबन्धनविषये अनुसन्धानाय बजटनिर्णयादिकाय च कार्यं कर्तुं एषः संस्थानः स्थाप्यते। अस्य प्रारम्भिकसञ्चालनं भोपालस्थितप्रशासनअकादम्याः अन्तर्गतं भविष्यति।
तथा उज्जयिन्यां सिंहस्थमहोत्सवं दृष्ट्वा विमानस्थानकनिर्माणार्थं ५९० कोटिरूप्यकाणां विनियोगः स्वीकृतः, यः भूम्यधिग्रहणार्थं व्ययितः भविष्यति। उड़ान योजना अन्तर्गतं एषः विमानस्थानकः निर्मीयते, येन भविष्ये एयरबसयानानां संचालनं सुलभं भविष्यति।
उज्जयिनी नगरी धार्मिकपर्यटनदृष्ट्या अत्यन्तमहत्त्वपूर्णा अस्ति, यत्र द्वादशज्योतिर्लिङ्गेषु एकः महाकालेश्वर ज्योतिर्लिंग स्थितः, तथा सांदीपनि आश्रम अपि प्रसिद्धः। अत्र सिंहस्थमहाकुम्भस्य आयोजनं भवति, अतः अस्य नगरस्य संयोजकत्वविकासः अत्यावश्यकः।
मन्त्रिपरिषदा अनुसूचितजातिवर्गस्य छात्राणां छात्रवृत्तिः २००० रूप्यकात् वर्धयित्वा १०,००० रूप्यकपर्यन्तं कृता। अधुना स्नातकस्नातकोत्तरपाठ्यक्रमेषु अध्ययनरताः छात्राः अस्याः योजनायाः लाभं प्राप्स्यन्ति। प्रतिवर्षं १०० नवीनविद्यार्थिनः तथा पूर्वाध्ययनरताः छात्राः लाभान्विताः भविष्यन्ति।
मन्त्रिपरिषदा जनकल्याणकार्याणां कृते १६,७२० कोटिरूप्यकाणां स्वीकृतिः दत्ता। वाणिज्यकरविभागस्य योजनानां कृते २,९५२ कोटिरूप्यकाणि अनुमोदितानि। चणक-मसूरफलयोः उपार्जनार्थं ३,१७४ कोटिरूप्यकाणि स्वीकृतानि।
वनक्षेत्रेषु पुनरुत्पादनसंरक्षणार्थं ५,२१५ कोटिरूप्यकाणि दत्तानि। आरटीई (शिक्षाधिकार) योजनायाः अन्तर्गतं अशासकीयविद्यालयानां शुल्कप्रतिपूर्त्यर्थं ३०३९ कोटिरूप्यकाणि स्वीकृतानि। पीएम-श्री विद्यालययोजनायाः कृते ९४० कोटिरूप्यकाणि, तथा नवमद्वादशवर्गपर्यन्तं छात्राणां निःशुल्कपुस्तकप्रदानार्थं ६९३ कोटिरूप्यकाणि अनुमोदितानि।
मन्दसौरजिले कातना सूक्ष्मसिंचाईपरियोजनायाः कृते ८८.४१ कोटिरूप्यकाणां स्वीकृतिः दत्ता, येन ३५०० हेक्टेयरभूमिः सिंचिता भविष्यति तथा १२० ग्रामेषु १३५८ परिवाराः लाभं प्राप्स्यन्ति।
तथा च मन्त्रिपरिषदा चणकस्य २५ प्रतिशतं मसूरस्य १०० प्रतिशतं च क्रयणनिर्णयः कृतः। चणकस्य मूल्यं ५००० रूप्यकाणि प्रति क्विण्टल, मसूरस्य च ५८०० रूप्यकाणि निश्चितम्। अस्य कृते ३,१७४ कोटिरूप्यकाणां स्वीकृतिः प्रदत्ता।
---------------
हिन्दुस्थान समाचार