संघ प्रमुखो डॉ भागवतो वृंदावने संत मलूक दासजी महाराजस्य 452तमस्य जयंती महोत्सवस्य कृतः शुभारंभः
मथुरा, 07 अप्रैलमासः (हि.स.)। राष्ट्रियस्वयंसेवक संघस्य सरसंघचालकः डॉ मोहन भागवत मङ्गलवासरे वृन्दावने मलूकपीठाश्रमे आयोजितस्य सन्त मलूकदास महाराज इत्यस्य द्विशतद्विपञ्चाशत् (४५२) जयन्तीमहोत्सवस्य दीपप्रज्वलनेन शुभारम्भं कृतवान्। तेन सन्तशिरोमणेः
452वें श्रीमलूक जयंती महोत्सव  में हिस्सा  लेते राष्ट्रीय स्वयंसेवक संघ के सरसंघचालक डा मोहन भागवत व अन्य पूज्यनीय संत महात्मा


मथुरा, 07 अप्रैलमासः (हि.स.)। राष्ट्रियस्वयंसेवक संघस्य सरसंघचालकः डॉ मोहन भागवत मङ्गलवासरे वृन्दावने मलूकपीठाश्रमे आयोजितस्य सन्त मलूकदास महाराज इत्यस्य द्विशतद्विपञ्चाशत् (४५२) जयन्तीमहोत्सवस्य दीपप्रज्वलनेन शुभारम्भं कृतवान्। तेन सन्तशिरोमणेः मलूकदासमहाराजस्य समाधौ पूजार्चना अपि कृता तथा तत्रस्थां दिव्यां रजः स्वमस्तके आरोपितवान्। तेन एकतायाः अपि सन्देशः प्रदत्तः।

मलूकपीठाश्रमे आगमनसमये डॉ मोहन भागवतस्य भव्यस्वागतं कृतम्। पूजार्चनानन्तरं सः मञ्चात् सन्तैः सह एकतायाः सन्देशं दत्तवान् तथा अस्य आयोजनस्य विशेषतां महत्वं च निरूपितवान्।

अस्मिन् अवसरे प्रख्यातः योगगुरुः बाबा रामदेव अपि उपस्थितः आसीत्, तेन अपि सर्वान् सन्तान् प्रणामः कृतः।

अस्मिन् धार्मिकसमारोहे गीतामनीषी ज्ञानानंद महाराज सन्तमलूकदासमहाराजस्य व्यक्तित्वं कृतित्वं च विस्तरेण विवृण्वन् उक्तवान् यत् सः दिव्यः महान् सन्तः आसीत्। तेन डॉ भागवतस्य मलूकपीठाश्रमे प्रथमागमनस्य स्वागतं कृतम्। अस्मिन् अवसरे मलूकपीठाधीश्वरः आचार्य राजेंद्रदास महाराज डॉ भागवताय ठाकुरजीस्य प्रतिमां समर्पितवान्।

डॉ भागवतस्य आगमनसमये मलूकपीठपरिसरे श्रद्धालूनां महान् समागमः अभवत्। कार्यक्रमे कठोरसुरक्षाव्यवस्था कृता आसीत्, सर्वत्र पुलिसबलस्य नियुक्तिः अभवत्। अस्यां जयन्तीसमारोहश्रृङ्खलायां सायंकाले योगी आदित्यनाथ अपि सहभागी भविष्यति। तस्य आगमनार्थं स्थानिकप्रशासनं पूर्णतया सजगम् अस्ति।

उल्लेखनीयम् अस्ति यत् वृन्दावनस्य मलूकपीठे (वंशीवट) ७ अप्रैल २०२६ तिथौ सन्तमलूकदासमहाराजस्य ४५२तमः जयन्तीमहोत्सवः धूमधामेन आचर्यते। अस्मिन् महोत्सवे अष्टयामलीला, समाधिपूजनम्, प्रमुखसन्तानां सहभागिता तथा आध्यात्मिकचर्चाः प्रचलन्ति। अयं उत्सवः ३० मार्चत आरभ्य ८ अप्रैलपर्यन्तं प्रवर्तते, प्रतिदिनं भक्तिमयकार्यक्रमाः आयोजिताः भवन्ति।

---------------

हिन्दुस्थान समाचार