Enter your Email Address to subscribe to our newsletters

कोलकाता, 07 अप्रैलमासः (हि.स.)। पश्चिमबंगालस्य मुख्यमन्त्रिणा ममता बनर्जिना निर्वाचनआयोगस्य तथा इलेक्ट्रॉनिक मतदानयन्त्राणाम् विषयेषु उत्थापितेषु प्रश्नेषु केन्द्रीय सामाजिकन्यायाधिकारिता राज्य मन्त्री रामदास अठावले प्रतिक्रिया प्रदत्तवान्। सः उक्तवान् यत् ईवीएम नाम काचित् नूतना व्यवस्था नास्ति तथा अस्मिन् किमपि दोषः नास्ति।
मङ्गलवासरे कोलकाता नगरे आगत्य अठावले नेताजी सुभाषचन्द्र बोस अन्तर्राष्ट्रीय विमानस्थानके माध्यमैः सह वार्तालापं कृत्वा उक्तवान् यत् ईवीएम प्रधानमन्त्रिणा नरेन्द्र मोदी द्वारा न आनिता, अपि तु एषा व्यवस्था बहूनि वर्षाणि यावत् देशे प्रवर्तते तथा अस्याः आरम्भः काङ्ग्रेस् शासनकाले अभवत्।
तेन उक्तम् यत् पूर्वं मतपत्राणां गणना कर्तुं बहु कालः आवश्यकः आसीत्, किन्तु ईवीएम उपयोगेन मतगणना प्रक्रिया शीघ्रा तथा पारदर्शिनी अभवत्। सः विश्वासं व्यक्तवान् यत् ईवीएम मध्ये कापि त्रुटिः नास्ति तथा निर्वाचनानि पूर्ण पारदर्शितया कर्तव्यानि।
अठावले अपि उक्तवान् यत् वर्षे २०२१ पश्चिमबंगाल विधानसभा निर्वाचनसमये ममता बनर्जी बहु जनसमर्थनम् अलभत, तदा प्रधानमन्त्रिणा नरेन्द्र मोदिना सहिताः सर्वे नेतारः तां विजयाय अभिनन्दनं कृतवन्तः।
तेन उक्तम् यत् लोकतन्त्रे जनता एव अन्तिमं निर्णयं करोति यत् सत्ता कस्य हस्ते भविष्यति, तस्य आधारेणैव सर्वकारः निर्मीयते।
हिन्दुस्थान समाचार