असफलतातो मिलति अग्रे इतोऽपि परिश्रमं कर्तुं शिक्षणम् - देवदत्तपडिक्कलः
बेंगलुरुः, 07 अप्रैलमासः (हि.स.)।इण्डियन प्रीमियर लीग स्पर्धायां रॉयल चैलेंजर्स बेङ्गलुरु दलस्य बल्लेबाजः देवदत्त पडिक्कल अद्यतनकाले उत्कृष्ट प्रदर्शनं दर्शयति। तेन दलस्य आद्ययोः विजययोः महत्त्वपूर्णा भूमिका निर्वहिता। चेन्नई सुपर किङ्ग्स विरुद्धे
आरसीबी के बल्लेबाज देवदत्त पडिक्कल


बेंगलुरुः, 07 अप्रैलमासः (हि.स.)।इण्डियन प्रीमियर लीग स्पर्धायां रॉयल चैलेंजर्स बेङ्गलुरु दलस्य बल्लेबाजः देवदत्त पडिक्कल अद्यतनकाले उत्कृष्ट प्रदर्शनं दर्शयति। तेन दलस्य आद्ययोः विजययोः महत्त्वपूर्णा भूमिका निर्वहिता। चेन्नई सुपर किङ्ग्स विरुद्धे २९ कन्दुकैः ५० धावनानि तथा सनराइजर्स हैदराबाद विरुद्धे २६ कन्दुकैः ६१ धावनानि कृत्वा तेन स्वस्य उत्तम रूपं प्रदर्शितम्।

पडिक्कलस्य एतत् प्रदर्शनं केवलं धावन निर्माणे न सीमितम्, अपि तु तस्य क्रीडायां जातः परिवर्तनः मानसिक दृढता च अपि दर्शयति। प्रारम्भिककाले सः तन्त्र कौशलयुक्तः बल्लेबाजः इति ख्यातिम् अलभत, किन्तु कालान्तरम् स्वक्रीडायां परिवर्तनं कृतवान्।

स्वस्य कठिनकालं स्मरन् पडिक्कलः उक्तवान् यद् “यदा वस्तूनि मम अपेक्षया न अभवन् तदा मम समीपे कश्चन उत्तरः न आसीत्, किन्तु तदेव कालः मां श्रेष्ठतरं कर्तुं प्रेरितवान्। बहुशः असफलताः एव स्मारयन्ति यत् अधिकः परिश्रमः आवश्यकः।”

२०२५ वर्षे रॉयल चैलेंजर्स बेङ्गलुरु दले पुनरागमनं तस्य जीवनस्य महत्त्वपूर्णः परिवर्तनबिन्दुः अभवत्। दलस्य बल्लेबाजी प्रशिक्षकः दिनेश कार्तिक उक्तवान् यत् पडिक्कलः दलस्य कृते क्रीडितुं अत्यन्तं उत्सुकः आसीत्।

कार्तिकः अवदत् यत् “प्रथम संवादे एव सः उक्तवान् यत् आरसीबी विना अन्यस्य कस्यापि दलस्य कृते क्रीडनस्य कल्पना अपि न करोति। सः आद्यतः एव दलाय विशेषं कर्तुं संकल्पेन आगतः।”

आरसीबी दले पुनः अवसरं प्राप्य पडिक्कलः स्वक्रीडायां परिवर्तनं कर्तुं निश्चयं कृतवान्, विशेषतः टी२० क्रीडायां शीघ्र धावन निर्माणे अधिकं अभ्यासं कृतवान्।

सः उक्तवान् यद् “अहं निश्चयं कृतवान् यत् मम क्रीडायां परिवर्तनं कर्तव्यं, परिणामस्य चिन्तां विना तस्मिन् कार्ये प्रवृत्तव्यं। एतत् न सुलभम् आसीत्, किन्तु मम स्वसुखक्षेत्रात् निर्गमनम् आवश्यकम् आसीत्।

२०२५ सत्रे तेन १० स्पर्धासु १५० प्रहारदरेण २४७ धावनानि कृतानि। २०२६ सत्रे तस्य विकासः अद्य स्पष्टतया दृश्यते। यत्र चेन्नई सुपर किङ्ग्स विरुद्धे संतुलित आक्रामकता दृश्यते, तत्र सनराइजर्स हैदराबाद विरुद्धे अधिक तीव्र शैली अपि दृष्टा।

पडिक्कलः उक्तवान् यत् “२०२० २१ मध्ये अहं नवक्रीडकाः इव किञ्चित् सन्त्रस्तः आसीत्, किन्तु अधुना अहं आईपीएल दबावं नियन्त्रयितुं शिक्षितवान्। अधुना अहं अधिकं शान्तः आत्मविश्वासयुक्तः च अस्मि तथा स्वक्रीडायाः आनन्दं अनुभवामि।”

तस्य प्रगतिं विषये दिनेश कार्तिक उक्तवान्— “२०२५ वर्षे आरसीबी दले आगतः पडिक्कलः पूर्वात् सर्वथा भिन्नः आसीत्। तेन यथा स्वक्रीडा परिवर्तिता, तत् अत्युत्तमम्। यदि सः अस्मिन् रूपे स्थितः, तर्हि भारतीय दलम् एनं उपेक्षितुं न शक्नोति।

अतः २०२६ सत्रस्य प्रारम्भिक द्वयोः स्पर्धयोः अनन्तरं पडिक्कलः केवलं धावनानि न निर्माति, अपि तु आधुनिक टी२० बल्लेबाजीस्य नूतन मानकानि अपि स्थापितुं प्रवृत्तः अस्ति।

---------------

हिन्दुस्थान समाचार