Enter your Email Address to subscribe to our newsletters

वॉशिंगटननगरम्, ०७ अप्रैलमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्पः ईरान-युद्धं प्रति महत्कथनं कृत्वा उक्तवान् यत् अमेरिकीय-सेनया शत्रु-प्रदेशे आविष्टं स्वकीयम् एकं वैमानिकं उद्धर्तुं “अद्यावधि सर्वस्मात् महदुद्धार-अभियानम्” प्रचालितम्।
व्हाइट-हाउस-स्थले पत्रकारान् सम्बोधयन् ट्रम्पः उक्तवान् यत् अस्मिन् अभियाने प्रायः २०० सैनिकाः नियुक्ताः आसन् तथा २१ सैन्य-विमानानि शत्रोः वायुमण्डले प्रेषितानि। तस्य अनुसारं वैमानिकः ईरान-प्रदेशे पतितः आसीत् तथा अत्यन्त-भयङ्कर-परिस्थितिषु तम् सुरक्षितरूपेण बहिः निष्कासितम्।
ट्रम्पः अवदत् यत् अभियानस्य समये अमेरिकीय-विमानानां प्रति अत्यन्त-समीपात् गुटिका-वर्षा कृता, तथापि सेनया साहसं प्रदर्श्य अभियानं सफलतया सम्पन्नम्। सः अमेरिकीय-सैनिकानां “शौर्यं साहसं च” प्रशंसितवान्।
तथापि स्व-वक्तव्ये ट्रम्पः कठोरतां स्वीकृतवान्। सः सञ्चेतनां दत्तवान् यत् अमेरिका “केवलं एकस्मिन्नेव रात्रौ सम्पूर्णम् ईरानं विनाशयितुं शक्नोति” तथा एषा क्रिया कदापि सम्भवा अस्ति। अस्य वक्तव्यस्य कारणेन अन्ताराष्ट्रिय-स्तरे चिन्ता वर्धितुं शक्नोति।
ट्रम्पः एतदपि उद्घाटितवान् यत् अभियानस्य समये एकं अमेरिकीय-विमानं स्वयमेव नष्टं कृतम्, येन शत्रोः हस्ते न पतेत्। सः उक्तवान् यत् अभियान-संबद्धा संवेदनशीला सूचना बहिः आगता, यस्याः अन्वेषणं अधुना तीव्रतया क्रियते।अस्मिन् अवसरे सः केन्द्रीय-गुप्तचर-संस्थायाः (सीआईए) भूमिकां प्रशंसन् उक्तवान् यत् संस्थया सम्पूर्णे अभियाने महत्त्वपूर्णं योगदानं दत्तम्।
ईरानदेशस्य पक्षात् अपि तीव्रा प्रतिक्रिया प्रकटिता। देशस्य नूतनः सर्वोच्च-नेता मोजतबा-खामेनेई उक्तवान् यत् नेतॄणां हत्या वा आक्रमणैः ईरानदेशः न स्थगितः भविष्यति।
सीजफायर-विषये अपि ईरानदेशे स्पष्टतया उक्तं यत् सः अस्थायी-युद्धविरामं न इच्छति, किन्तु युद्धस्य पूर्णतया स्थायी-समाप्तिं इच्छति।
पश्चिम-एशिया-प्रदेशे वर्धमान-चिन्तायाः मध्ये उभयोः देशयोः वक्तव्यैः स्थितिः अधिका संवेदनशीला जाता, येन वैश्विक-स्तरे चिन्ता निरन्तरं वर्धते।
हिन्दुस्थान समाचार / अंशु गुप्ता