Enter your Email Address to subscribe to our newsletters

वॉशिंगटननगरम्, ०७ अप्रैलमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्पः ईरान-युद्धं प्रति स्वकीयेषु अनेकेषु सहयोगी-देशेषु तीक्ष्णं प्रहारं कृतवान्। सः अवदत् यत् अनेकैः प्रमुखैः अमेरिकीय-सहयोगिभिः अस्य संघर्षस्य समये काचित् सहायता न कृता।
व्हाइट-हाउस-स्थले आयोजितायां पत्रकार-परिषद् ट्रम्पः उक्तवान्— “जापानदेशेन अस्माकं सहायता न कृता, ऑस्ट्रेलियादेशेन सहायता न कृता, दक्षिण-कोरियादेशेन सहायता न कृता, ततः नाटो-संघेन अपि काचित् सहायता न कृता।”
ट्रम्पः अग्रे अवदत् यत् अमेरिका एतेषां देशानां सुरक्षार्थं विशालां सैन्य-उपस्थितिं धारयति। तेन उक्तं यत् जापानदेशे प्रायः ५०,००० अमेरिकीय-सैनिकाः सज्जिताः सन्ति, ये किम्-जोंग-उन-नेतृत्वस्य उत्तर-कोरियादेशात् तस्य सुरक्षा प्रददति। दक्षिण-कोरियादेशेऽपि प्रायः ४५,००० अमेरिकीय-सैनिकाः उपस्थिताः सन्ति।
तथापि ट्रम्पः कतिपयान् खाड़ी-देशान् प्रशंसितवान्। सः सऊदी-अरब-कतर-संयुक्त-अरब-अमीरात-बहरीन-कुवैत-एतान् “उत्कृष्ट-सहयोगिनः” इति वर्णयन् उक्तवान् यत् एते देशाः परिस्थितिं दृष्ट्वा सक्रियां भूमिकां निर्वहन्ति।
ट्रम्पस्य एतेभ्यः वक्तव्येभ्यः अमेरिका-देशस्य पारम्परिक-सहयोगिभिः सह मतभेदाः स्पष्टतया प्रकटिताः सन्ति, येन वैश्विक-कूटनीत्याः उपरि प्रभावः भवितुम् अर्हति।
हिन्दुस्थान समाचार / अंशु गुप्ता