स्कूल चलो अभियानयात्रा निर्गता , बालेभ्यो वितीर्णानि नूतनानि पुस्तकानि
बरेली, 07 अप्रैलमासः (हि.स.) ।उत्तरप्रदेशस्य बरेलीजनपदस्य कम्पोजिटविद्यालये केसरपुरे मङ्गलवासरे ‘स्कूल चलो अभियान’, पुस्तकवितरणं तथा शिक्षा-चौपाल-कार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे जिला-पञ्चायत-अध्यक्षा रश्मि पटेल मुख्य-अतिथिरूपेण तथा
केसरपुर के कंपोजिट विद्यालय में आयोजित स्कूल चलो अभियान और शिक्षा चौपाल कार्यक्रम में बच्चों को पुस्तकें वितरित करते अतिथि।


केसरपुर के कंपोजिट विद्यालय में आयोजित स्कूल चलो अभियान और शिक्षा चौपाल कार्यक्रम में बच्चों को पुस्तकें वितरित करते अतिथि।


केसरपुर के कंपोजिट विद्यालय में आयोजित स्कूल चलो अभियान और शिक्षा चौपाल कार्यक्रम में बच्चों को पुस्तकें वितरित करते अतिथि।


बरेली, 07 अप्रैलमासः (हि.स.) ।उत्तरप्रदेशस्य बरेलीजनपदस्य कम्पोजिटविद्यालये केसरपुरे मङ्गलवासरे ‘स्कूल चलो अभियान’, पुस्तकवितरणं तथा शिक्षा-चौपाल-कार्यक्रमस्य आयोजनम् अभवत्।

अस्मिन् कार्यक्रमे जिला-पञ्चायत-अध्यक्षा रश्मि पटेल मुख्य-अतिथिरूपेण तथा जिला-बेसिक-शिक्षा-अधिकारिणी विनीता विशिष्ट-अतिथिरूपेण उपस्थिते अभवताम्। कार्यक्रमस्य अध्यक्षता खण्ड-शिक्षा-अधिकारी विजयकुमारः अकरोत्।

कार्यक्रमस्य शुभारम्भः माता सरस्वत्याः प्रतिमायां माल्यार्पणेन दीपप्रज्वलनेन च अभवत्। ततः अनन्तरं बालकैः सरस्वती-वन्दना प्रस्तुताऽभवत्। खण्ड-शिक्षा-अधिकारी विजयकुमारः कार्यक्रमस्य रूपरेखां प्रस्तूय अतिथीनां स्वागतं कृतवान्।

अस्मिन् अवसरे विद्यालय-परिसरे अनेकाः गतिविधयः आयोजिताः। आङ्गनवाडी-नवकक्षस्य उद्घाटनं कृतम्। परिसरे वृक्षारोपणम् अपि अभवत्। बालकेभ्यः नूतनाः पुस्तकाः वितरिताः तथा ‘स्कूल चलो अभियान’-रैली अतिथिभिः हरितध्वजेन प्रेषिता। अस्या रल्याः माध्यमेन ग्रामवासिनः बालकानां नामांकनं कर्तुं तथा नियमितरूपेण विद्यालयं प्रेषयितुं प्रेरिताः।

कार्यक्रमस्य अन्ते विद्यालयस्य प्रधानाध्यापकः सर्वेषां अतिथीनां सहभागिनां च आभारं व्यक्तवान्। संचालनं के पी सिंहेन कृतम्।

अस्मिन् अवसर्रे एकेडमिक-रिसोर्स-पर्सन सौरभ शुक्ला, नम्रता वर्मा, पवन मिश्रः, विनीत शुक्लः, राममोहन तिवारी, नरेन्द्रप्रताप गंगवारो, जितेन्द्र गंगवारो, रविन्द्र यादवो, राजेन्द्र गंगवार इत्यादयः बहवः शिक्षकाः शिक्षिकाः अभिभावकाः च उपस्थिताः आसन्।--------------

हिन्दुस्थान समाचार