Enter your Email Address to subscribe to our newsletters

लखनऊ, 07 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य सर्वकारेण राज्ये “डॉ. भीमराव आंबेडकर मूर्तिविकासयोजना” अन्तर्गतं देशस्य सर्वेषु ४०३ विधानसभाक्षेत्रेषु दश-दश आंबेडकरस्थलानां विकासः सौन्दर्यीकरणं च कर्तुं निर्णयः कृतः। अस्य प्रस्तावस्य अद्य मन्त्रिपरिषद्सभायां अनुमोदनं जातम्। अस्य कृते ४०३ कोटिरूप्यकाणां विनियोगः कृतः।
मङ्गलवासरे लोकभवने मुख्यमन्त्रिणः योगी आदित्यनाथस्य अध्यक्षतायां मन्त्रिपरिषदः उपवेशनम्अभवत्। ततः अनन्तरं समाजकल्याणराज्यमन्त्री (स्वतन्त्रप्रभार) असीम अरुण माध्यमकेन्द्रे पत्रकारान् एतां सूचनां दत्तवान्। तेन उक्तं यत् अस्य योजनायाः अन्तर्गतं समाजविकासे महत्त्वपूर्णयोगदानं कृतवन्तः पुरुषाः स्त्रियश्च येषां स्थलेषु स्मारकाः वा मूर्तयः स्थापिताः सन्ति, तेषां सर्वेषां स्थानानां विकासः क्रियते। येषु स्थलेषु डॉ. भीमराव आंबेडकर तथा अन्ये सामाजिकन्यायसंघर्षकर्तारः सम्बद्धाः सन्ति, तेषां मूर्तिस्थलानां सौन्दर्यीकरणम् अपि भविष्यति। सुरक्षार्थं छत्री, प्राकारः, हरितपरिसरः इत्यादयः व्यवस्थाः क्रियन्ते। एकस्मिन् मूर्तिस्थले अधिकतमं दशलक्षरूप्यकपर्यन्तं व्ययः भविष्यति। मानक-रूपरेखा अपि निर्मीयते, स्थानीयशिल्पकलायाः अपि संरक्षणं क्रियते।
प्रदेशस्य ४०३ विधानसभाक्षेत्रेषु प्रत्येकस्मिन् दश स्थानानि चिन्हीकृत्य तेषां विकासः क्रियते, यत्र कुलव्ययः ४०३ कोटिरूप्यकाणि भविष्यन्ति। अस्मिन् योजनायां केवलं ताः मूर्तयः एव सम्मिलिताः भविष्यन्ति याः २५ दिसम्बर २०२५ पर्यन्तं स्थापिताः सन्ति। एतेन सह संत रविदास, संत कबीरदास, ज्योतिबा फूले तथा महर्षि वाल्मीकि इत्यादीनां सामाजिकन्यायप्रणेता महापुरुषाणां मूर्तिस्थलानि अपि अस्मिन् योजनायां समावेशितानि। प्रथमचरणे सार्वजनिकस्थलेषु स्थितानां मूर्तीनां सौन्दर्यीकरणकार्यं क्रियते।
मन्त्रिपरिषद्सभायां अन्ये अपि महत्त्वपूर्णनिर्णयाः स्वीकृताः। बलियाजनपदे स्वशासी राज्यचिकित्सामहाविद्यालयस्य स्थापने सम्बन्धी प्रस्तावः अनुमोदितः। १४.०५ एकरभूमिः कारागारविभागात् चिकित्साशिक्षाविभागाय हस्तान्तरिता। अस्य निर्माणे ४३७ कोटिरूप्यकाणां व्ययः अनुमानितः। एतत् महाविद्यालयं महर्षि भृगु नाम्ना स्थापितं भविष्यति, यस्य नाम “महर्षि भृगु शासकीय चिकित्सामहाविद्यालयः” इति भविष्यति।
तत्सहितं पूर्वपाकिस्तानात् (बांग्लादेशात्) आगताः विस्थापिताः हिन्दूबाङ्गालीपरिवाराः कानपुरदेहातजनपदे पुनर्वासार्थं लीजभाडा तथा पट्टप्रारूपनिर्धारणसम्बन्धी प्रस्तावः अपि स्वीकृतः। तथैव मेरठजनपदस्य मवाना तहसीलस्य नगलगोसाईं ग्रामात् ९९ विस्थापितपरिवाराणां कानपुरदेहातस्य रसूलाबादतहसीलस्य भैंसायाग्रामे तथा ताजपुरतरसौलीग्रामे पुनर्वासाय प्रस्तावः अपि मन्त्रिपरिषदा अनुमोदितः।
हिन्दुस्थान समाचार