विश्व-स्वास्थ्य-दिवसे आईएमए-बरेली-संघस्य सायकिल-शोभायात्रा, स्वस्थ-जीवन-शैल्या: सन्देशः प्रदत्तः
बरेलीनगरम्, ०७ अप्रैलमासः (हि.स.)। विश्व-स्वास्थ्य-दिवसस्य उपलक्ष्ये इण्डियन-मेडिकल-एसोसिएशन (आईएमए) बरेली-संघेन मङ्गलवासरे प्रातःकाले सायकिल-शोभायात्रा आयोजिता। अस्याः शोभायात्राया: उद्देश्यं जनान् स्वस्थ-जीवन-शैलीं स्वीकर्तुं, नियमित-व्यायामं कर्
विश्व स्वास्थ्य दिवस पर आईएमए बरेली की ओर से निकाली गई साइकिल रैली में शामिल चिकित्सक और शहरवासी।


विश्व स्वास्थ्य दिवस पर आईएमए बरेली की ओर से निकाली गई साइकिल रैली में शामिल चिकित्सक और शहरवासी।


बरेलीनगरम्, ०७ अप्रैलमासः (हि.स.)। विश्व-स्वास्थ्य-दिवसस्य उपलक्ष्ये इण्डियन-मेडिकल-एसोसिएशन (आईएमए) बरेली-संघेन मङ्गलवासरे प्रातःकाले सायकिल-शोभायात्रा आयोजिता। अस्याः शोभायात्राया: उद्देश्यं जनान् स्वस्थ-जीवन-शैलीं स्वीकर्तुं, नियमित-व्यायामं कर्तुं तथा पर्यावरण-संरक्षणं प्रति जागरूकतां वर्धयितुं आसीत्। अस्यां शोभायात्रायां बहुसंख्यकाः चिकित्सकाः नगर-निवासिनः च सहभागीभूताः।

प्रातः षट्वादने सिविल-लाइन्स-स्थितात् आईएमए-भवनात् शोभायात्रा आरब्धा। सा श्यामगंज-उड्डयन-सेतुः, केशलता-चिकित्सालयः, धरम-काँटा-चतुष्पथः, महादेव-उड्डयन-सेतुः तथा चौकी-चतुष्पथं गत्वा पुनः आईएमए-भवनम् आगत्य समापितम्। सम्पूर्णे मार्गे सहभागिनः जनान् स्वास्थ्यं प्रति सजगत्वस्य सन्देशं दत्तवन्तः। अस्मिन् अवसरे “स्वास्थ्येन सह, विज्ञानेन सह स्थिताः भवाम:” इति विषयः अपि प्रमुखतया प्रतिपादितः।

चिकित्सकैः उक्तं यत् नियमितं द्विचक्रिका-चालनं, पादयात्रा तथा अन्याः शारीरिक-क्रियाः शरीरस्य स्वास्थ्य-रक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेन सह एतत् प्रदूषण-नियन्त्रणे अपि साहाय्यं करोति।

आईएमए-बरेली-संघस्य अध्यक्षः डॉ.अतुल-कुमार-श्रीवास्तवः अवदत् यत् स्वस्थ-समाजस्य निर्माणाय जनैः स्वस्य दिनचर्यायां व्यायामः अवश्यं समावेशनीयः। कम्युनिटी-सर्विस-चेयरमैन डॉ.प्रमेन्द्र-महेश्वरी, मानद-सचिवः डॉ.अंशु-अग्रवालः तथा मीडिया-सचिवः डॉ.कामेन्द्र-सिंहः अपि जनान् स्वास्थ्यं प्रति सजगत्वाय आह्वानं कृतवन्तः। शोभायात्रायां डॉ.डी.पी.गंगवार:, डॉ.राजीव-गोयल:, डॉ.सुमित-अग्रवाल:, डॉ.आलोक-सिंहः, डॉ. पंकज-कुमारः तथा डॉ.विभोर-प्रधानः इत्यादयः बहवः चिकित्सकाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता