(लीड) उत्तरप्रदेशमंत्रिमंडलं 22 प्रस्तावेभ्योऽनुमतिमददात्, शिक्षा मित्रेभ्यः अनुदेशकेभ्यःअस्मान्मासात् लभ्यते मानदेयम्
चतुर्जिल्लानां 12 सहस्रात्अधिकान् विस्थापितान् परिवारान् नागरिकता पात्रतया संबंधे प्रस्तावः पारितः लखनऊ, 07 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य सर्वकारस्य मन्त्रिपरिषद् मूलशिक्षाविभागे कार्यरत शिक्षामित्राणां तथा अनुदेशकानां मानदेये मासिकरूपेण दशसह
मुख्यमंत्री योगी


चतुर्जिल्लानां 12 सहस्रात्अधिकान् विस्थापितान् परिवारान् नागरिकता पात्रतया संबंधे प्रस्तावः पारितः

लखनऊ, 07 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य सर्वकारस्य मन्त्रिपरिषद् मूलशिक्षाविभागे कार्यरत शिक्षामित्राणां तथा अनुदेशकानां मानदेये मासिकरूपेण दशसहस्ररूप्यकाणां वृद्धिं कर्तुं अनुमतिं दत्तवती। एषा वर्धिता राशि एतस्मिन् एव मासि अप्रैलमासात् प्रदीयते। सर्वकारेण पीलीभीत, लखीमपुरखीरी, रामपुर, बिजनौर च इत्येषु जनपदेषु विभाजनकाले विस्थापितानां द्वादशसहस्राधिकपरिवाराणां भारतीयनागरिकतायाः पात्रतासम्बन्धी प्रस्तावः सहिताः कुलं द्वाविंशतिः महत्त्वपूर्णप्रस्तावाः अपि अनुमोदिताः।

मङ्गलवासरे लोकभवने मुख्यमन्त्रिणः योगी आदित्यनाथ अध्यक्षतायां मन्त्रिपरिषदः उपवेशनम्अभवत्। तदनन्तरं वित्तसंसदीयकार्यमन्त्री सुरेश खन्ना, परिवहनमन्त्री दयाशंकर सिंह, मूलशिक्षाराज्यमन्त्री (स्वतन्त्रप्रभार) संदीप सिंह तथा वनमन्त्री अरुण सक्सेना लोकभवनस्य माध्यमकेन्द्रे पत्रकारान् मन्त्रिपरिषद्निर्णयान् अवगतवन्तः।

मन्त्री खन्ना अवदत् यत् उत्तरप्रदेशसरकारः पञ्चविंशतिलक्षसंख्याकानि स्मार्टटैबलेट् क्रेतुं निर्णयं कृतवती। एतानि विद्यार्थिभ्यः निःशुल्कं वितरितानि भविष्यन्ति, विशेषतः अन्तिमवर्षे अध्ययनरतविद्यार्थिनां कृते। अस्मात् पूर्वं षष्टिलक्षसंख्याकानि स्मार्टफोनतथा टैबलेट् क्रेतानि आसन्। औद्योगिकविकासविभागस्य अष्ट प्रस्तावाः अपि अनुमोदिताः, ये सर्वे निवेशसम्बद्धाः सन्ति। एतेषु बुन्देलखण्डे शतएकरभूमौ सौरऊर्जाकेन्द्रस्य स्थापना, प्रयागराजे द्विशतैकत्रिंशत्कोटिरूप्यकव्ययेन जलप्रकल्पस्य स्थापना, सौरसेलनिर्माणैककस्य स्थापना च सम्मिलिताः।

उत्तरप्रदेशमन्त्रिपरिषदा पीलीभीत, लखीमपुरखीरी, रामपुर, बिजनौर च जनपदेषु भारतपाकविभाजनकाले आगतानां विस्थापितपरिवाराणां भारतीयनागरिकतायाः पात्रतासम्बन्धी प्रस्तावः स्वीकृतः। अस्य लाभः लखीमपुरखीरी जनपदे २३५० परिवाराः, पीलीभीते ४००० परिवाराः, बिजनौरे अष्टादशग्रामेषु ३८५६ परिवाराः तथा रामपुरे षोडशग्रामेषु २१७४ परिवाराः प्राप्स्यन्ति।

पत्रकारवार्तायां परिवहनमन्त्री दयाशंकरसिंहः अवदत् यत् परिवहनविभागस्य त्रयः प्रस्तावाः स्वीकृताः। पीपीपी नमूनेन नवचत्वारिंशत् नवीनबसस्थानकानां निर्माणसम्बन्धी प्रस्तावः तेषु अन्तर्भवति। एते बसस्थानकानि विमानस्थानकवत् सुविधासम्पन्नानि भविष्यन्ति। हस्तरसजनपदे सिकन्दराराऊ क्षेत्रे कृषिविभागस्य द्विहेक्टेयरभूमिः बसस्थानकनिर्माणार्थं निःशुल्कं स्वीकृता। तथैव बुलन्दशहरस्य डिबाई क्षेत्रे सिंचाईविभागभूमेः तथा बलरामपुरस्य तुलसीपुरे पीडब्ल्यूडीभूमेः उपयोगः अपि स्वीकृतः।

मूलशिक्षाराज्यमन्त्री संदीपसिंहः अवदत् यत् मूलशिक्षाविभागस्य द्वौ प्रस्तावौ अनुमोदितौ। सर्वेषां अंशकालिकानुदेशकानां शिक्षामित्राणां च मानदेयं अष्टसहस्ररूप्यकैः वर्धितम्। अधुना शिक्षामित्राणां मानदेयं अष्टादशसहस्ररूप्यकाणि भविष्यति। उत्तरप्रदेशे एकलक्षद्विचत्वारिंशत्सहस्रनवशतएकोनत्रिंशत् शिक्षामित्राः कार्यरताः सन्ति। तेषां मध्ये एकलक्षएकोनत्रिंशत्सहस्रत्रिशतद्वात्रिंशत् शिक्षामित्राणां मानदेयस्य केन्द्रीयांशः वर्धितः, अवशिष्टव्ययभारं राज्यसरकारः वहति। एषा वृद्धि प्रथमअप्रैलदिनात् प्रभावी भविष्यति। उच्चप्राथमिकविद्यालयेषु कार्यरतानां अंशकालिकानुदेशकानां मानदेयम् अपि प्रथमअप्रैलदिनात् वर्धितं भविष्यति। पूर्वं ते नवसहस्ररूप्यकाणि प्राप्नुवन्ति स्म, अधुना तु सप्तदशसहस्ररूप्यकाणि प्रति मासं प्राप्स्यन्ति।

हिन्दुस्थान समाचार