Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, ०७ अप्रैलमासः(हि.स.)। जीडी-बिनानी-पीजी-महाविद्यालये मङ्गलवासरे प्लेसमेंट-सेल-इत्यस्य तत्त्वावधाने ‘आविष्कार-फाउण्डेशन’ इत्यस्य उद्यमिता-विकास-कार्यक्रमे २०२६ अन्तर्गतं कार्यशाला आयोजिता, यस्यां छात्राः स्वरोजगार-स्टार्टअप-दिशि प्रेरिताः।
कार्यक्रमस्य अध्यक्षता प्राचार्येण प्रो.अशोक-कुमार-सिंहेन कृता। तेन उक्तं यत् अद्यतन-काले केवलं नियुक्ति-प्राप्तिः एव लक्ष्यं न भवेत्, अपितु युवभ्य: रोजगार-दातारः भवितुम् अर्हन्ति। शासनस्य विभिन्न-योजनानां लाभं स्वीकृत्य स्वविचाराणां साकार-रूपं दातुं शक्यते।
कार्यशालायां ‘आविष्कार-फाउण्डेशन’ इत्यस्य मुख्य-प्रशिक्षकः अधिराजः ‘स्टार्टअप-इण्डिया’ सहित विभिन्न-योजनानां विषये सूचनां दत्तवान्। तेन उक्तं यत् यदि कस्यचित् छात्रस्य समाजाय देशाय च उपयुक्तः कश्चन नूतनः विचारः अस्ति, तर्हि सः अग्रे आनयेत्, संस्था तस्य साकार-रूपेण परिणतौ सहयोगं करिष्यति।
प्रशिक्षण-प्रबन्धकः विश्वनाथः अपि उद्यमितायाः व्यावहारिक-पक्षान् प्रकाशयन् छात्रान् आत्मनिर्भरत्वाय प्रेरितवान्। कार्यक्रमस्य सञ्चालनं प्लेसमेंट-सेल-प्रभारी डॉ.राम-मोहन-अस्थाना कृतवान्। अस्मिन् अवसरे बहवः छात्र-छात्राः उपस्थिताः सन्तः उद्यमिता: प्रति उत्साहं प्रदर्शितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता