मुख्यमन्त्री धामी पञ्च-विधानसभा-क्षेत्राणां कृते कृतानां घोषणानां समीक्षां कृतवान्, अवदत्—विकास-कार्येषु विलम्बे उत्तरदायित्वं निर्धार्यताम्
देहरादूननगरम्, ०७ अप्रैलमासः (हि.स.)। पुष्करसिंहधामी सचिवालये पञ्च-विधानसभा-क्षेत्राणां समीक्षां कृत्वा विकास-कार्येषु तीव्रतां वर्धयितुं तथा जन-समस्यानां शीघ्र-समाधानं कर्तुं अधिकारिणः निर्देशितवान्। मुख्यमन्त्रिणा सर्वेषां विभागानां परस्पर-समन्व
मुख्यमंत्री पुष्कर सिंह धामी विधानसभा की समीक्षा बैठक करते हुए।


देहरादूननगरम्, ०७ अप्रैलमासः (हि.स.)। पुष्करसिंहधामी सचिवालये पञ्च-विधानसभा-क्षेत्राणां समीक्षां कृत्वा विकास-कार्येषु तीव्रतां वर्धयितुं तथा जन-समस्यानां शीघ्र-समाधानं कर्तुं अधिकारिणः निर्देशितवान्।

मुख्यमन्त्रिणा सर्वेषां विभागानां परस्पर-समन्वयेन कार्यं कर्तुं निर्देशाः दत्ताः। निर्माण-कार्यसम्बद्धाः प्रस्तावाः विभागान्तरं शीघ्रं प्रेष्यन्ताम्, विलम्बे सति सम्बद्ध-विभागानां उत्तरदायित्वं निश्चितं भविष्यति।

तेन वन-विभागस्य लम्बित-घोषणानां पृथक् समीक्षा कर्तुं निर्देशाः दत्ताः। सह मुख्य-सचिवाय मानसून-पूर्वं सम्भावित-समस्यानां परिप्रेक्ष्ये विस्तृत-समीक्षा-सभाम् आयोजयितुं तथा बाढ-नियन्त्रण-सम्बद्ध-कार्याणि समयबद्धतया पूर्णयितुं निर्देशः दत्तः।

तेन पर्वतीय-क्षेत्रेषु स्वास्थ्य-सुविधानां सुदृढीकरणम्, हेलि-एम्बुलेन्स-सेवाया: समये उपलब्धता, विभागानां समन्वयः, निर्माण-कार्येषु शीघ्रता च अपेक्षितेति उक्तम्। कार्य-विलम्बे उत्तरदायित्वं निर्धार्यते इति अपि स्पष्टीकृतम्।

तथा च मानसून-पूर्व-सज्जा, बाढ-नियन्त्रण-कार्याणि, चारधाम-यात्रा-व्यवस्था च समयबद्धतया सम्पादयितुं निर्देशाः दत्ताः।

हिन्दुस्थान समाचार / अंशु गुप्ता