उपराष्ट्रपतिं, गृहमंत्रिणं च समेत्य बहवो नेतारो विश्व स्वास्थ्य दिवसस्य वर्धापनानि शुभकामनाश्च अयच्छन्
नवदिल्ली, 07 अप्रैलमासः (हि.स.)।विश्वस्वास्थ्यदिवसस्य (७ अप्रैल) अवसरस्य निमित्तम् उपराष्ट्रपतिः सीपी राधाकृष्णन, गृहमन्त्री अमित शाह च सहिताः अनेकाः नेतारः मङ्गलवासरे देशवासिभ्यः शुभाशंसाः प्रेषितवन्तः। राधाकृष्णनः सामाजिकमाध्यममञ्चे “एक्स” इति
विश्व स्वास्थ्य दिवस (फाइल फोटो)।


नवदिल्ली, 07 अप्रैलमासः (हि.स.)।विश्वस्वास्थ्यदिवसस्य (७ अप्रैल) अवसरस्य निमित्तम् उपराष्ट्रपतिः सीपी राधाकृष्णन, गृहमन्त्री अमित शाह च सहिताः अनेकाः नेतारः मङ्गलवासरे देशवासिभ्यः शुभाशंसाः प्रेषितवन्तः।

राधाकृष्णनः सामाजिकमाध्यममञ्चे “एक्स” इति स्वसन्देशे उक्तवान् यत् उत्तमं स्वास्थ्यं सुखिनः, उत्पादकस्य समृद्धस्य च समाजस्य आधारः अस्ति। वयं निवारकस्वास्थ्यसेवां, सम्यक् जीवनशैलीं तथा सर्वेषां कृते गुणवत्तायुक्तचिकित्सासेवासु समदर्शिनं प्रवेशं प्रोत्साह्य स्वस्थराष्ट्रनिर्माणे स्वप्रतिबद्धतां पुनः दृढीकर्तुं अर्हामः। तेन उक्तम् यत् स्वस्वास्थ्यकर्मिणां निरन्तरसमर्पणस्य अपि प्रशंसा कर्तव्या, ये करुणया प्रतिबद्धतया च मानवतां सेवन्ते। सर्वेभ्यः उत्तमस्वास्थ्यं सुखसमृद्धिश्च भवतु इति आशीर्वादः दत्तः।

गृहमन्त्री अमित शाह उक्तवान् यत् उत्तमं स्वास्थ्यं एकः विकल्पः अस्ति, यः समुचितपरिचर्यया धारयितुं शक्यते। सर्वे पर्याप्तपरिचर्यया, स्वास्थ्यकरभोजनाभ्यासैः तथा नियमितव्यायामेन स्वस्थं सुदृढं च समाजं निर्मातुं स्वान् समर्पयितुं शक्नुवन्ति।

केन्द्रीयमन्त्री गिरिराज सिंह अपि विश्वस्वास्थ्यदिवसस्य शुभाशंसाः प्रदाय सर्वान् संतुलिताहारं, नियमितयोगव्यायामौ च स्वीकरोतु इति आह्वानं कृतवान्, तथा स्वास्थ्यजागरूकतां विस्तारयितुम् उक्तवान्।

भाजपाया राष्ट्रियसंयोजकः नितिन नवीन उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनो नेतृत्वे स्वास्थ्यसेवाव्यवस्थासु सुदृढीकरणं, जागरूकतावृद्धिः तथा संतुलितजीवनशैलीप्रोत्साहनाय महत्त्वपूर्णप्रयत्नाः क्रियन्ते। स्वस्थः समाजः सुदृढराष्ट्रस्य आधारः अस्ति, वयं च स्वस्थतरं सुदृढतरं भारतं निर्मातुं प्रयत्नशीलाः स्मः।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ संस्कृतश्लोकं उद्धृत्य उक्तवान्— “शरीरमाद्यं खलु धर्मसाधनम्” इति। सः अवदत् यत् समृद्धसशक्तराष्ट्रस्य संकल्पना तदा एव सिद्ध्यति यदा अस्माकं मनः, मस्तिष्कं शरीरं च स्वस्थं भवति। पीएम-जेएवाई तथा प्रधानमंत्री भारतीय जनऔषधि परियोजना इत्यादिभिः योजनाभिः जनानां स्वास्थ्यसुरक्षा सुदृढीक्रियते, अद्य “नवभारतं” स्वस्थं समृद्धं च भवति। जीवनपद्धतिं संयमयित्वा “स्वस्थभारत-स्वस्थउत्तरप्रदेश” सिद्ध्यर्थं प्रयत्नः करणीयः।

मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादव अपि सर्वेभ्यः शुभाशंसाः प्रदाय उक्तवान् यत् स्वस्थनागरिकात् स्वस्थः समाजः स्वस्थं राष्ट्रं च निर्मीयते। एषः अवसरः अस्मान् रोगनिवारणे उत्तमस्वास्थ्यप्रयत्नेषु च सहभागितायै प्रेरयति।

राजस्थानस्य मुख्यमन्त्री भजन लाल शर्मा उक्तवान् यत् अद्य वयं स्वस्य परिवारस्य च स्वास्थ्यरक्षणेन सह “स्वच्छरोगमुक्तराजस्थान” निर्मातुं संकल्पं कुर्मः।

दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् उत्तमं स्वास्थ्यं उत्तमजीवनस्य आधारः अस्ति। विश्वस्वास्थ्यदिवसे वयं प्रत्येकनागरिकस्य कृते स्वस्थं सुदृढं दिल्लीं निर्मातुं स्वप्रतिबद्धतां पुनः प्रतिपादयामः।

दिल्ल्याः पूर्वमुख्यमन्त्री अरविंद केजरीवाल उक्तवान् यत् विश्वस्वास्थ्यदिवसे सर्वेषां स्वास्थ्यकर्मिणां प्रति नमः, ये निःस्वार्थतया देशवासीनां सेवां कुर्वन्ति। उत्तमं स्वास्थ्यं एव वास्तविकसमृद्धिः अस्ति। एवं राष्ट्रं निर्मीयताम् यत्र प्रत्येकः जनः विश्वस्तरीयचिकित्सासेवाः प्राप्नुयात्, कोऽपि धनाभावात् उपचारात् वञ्चितः न भवेत्।

-----------

हिन्दुस्थान समाचार