प्रधानमन्त्री मोदी विश्व-स्वास्थ्य-दिवसे स्वस्थ-समाजस्य निर्माणाय आह्वानं कृतवान्
नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी विश्व-स्वास्थ्य-दिवसस्य अवसरे देशवासिभ्यः शुभाशयाः दत्त्वा स्वस्थ-समाजस्य निर्माणे स्वस्य प्रतिबद्धतां पुनरुक्तवान्। प्रधानमन्त्री मोदी अन्येषां सेवायां निरन्तरं परिश्रमं कुर्वतां तथा स्व
भारतीय प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी विश्व-स्वास्थ्य-दिवसस्य अवसरे देशवासिभ्यः शुभाशयाः दत्त्वा स्वस्थ-समाजस्य निर्माणे स्वस्य प्रतिबद्धतां पुनरुक्तवान्। प्रधानमन्त्री मोदी अन्येषां सेवायां निरन्तरं परिश्रमं कुर्वतां तथा स्वस्थ-विश्वस्य दिशि कार्यं कुर्वतां सर्वान् व्यक्तीः प्रति कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् सुदृढस्य सशक्तस्य च राष्ट्रस्य कृते स्वस्थाः नागरिकाः अत्यावश्यकाः सन्ति।

प्रधानमन्त्रिणा सर्वेभ्यः अस्यां दिशि सामूहिक-प्रयत्नं कर्तुं आग्रहः कृतः। तेन प्रत्येकं व्यक्तेः कल्याणं सर्वोच्च-प्राथमिकतां दातव्यं इति उक्तं, देशं स्वस्थं कर्तुं सर्वेषु स्तरेषु निरन्तरं कार्यं करणीयम् इति च अभिहितम्।

प्रधानमन्त्री मोदी एक्स-माध्यमे सन्देशे नागरिकान् शारीरिकरूपेण सक्रियाः भवितुं प्रेरितवान्। सर्वेषाम् उत्तम-स्वास्थ्यस्य कामनां कृत्वा तेन उक्तं यत् प्रत्येकं स्वस्य स्वास्थ्यस्य रक्षणाय सर्वथा प्रयत्नं कुर्यात्।

अस्मिन् अवसरे तेन शारीरिक-व्यायामस्य महत्त्वं दर्शयन्तं संस्कृत-सुभाषितम् अपि लिखितम्—

लघुं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः।विभक्तघनगात्रत्वं व्यायामदुपजायते॥

प्रधानमन्त्री मोदी एतेन श्लोकेन अवदत् यत् नियमित-व्यायामेन कार्यक्षमता वर्धते, पाचन-क्रिया सम्यक् भवति, स्थूलता क्षीयते, शरीरं च सुदृढं भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता