Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, ०७ अप्रैलमास: (हि.स.) सामान्यजनस्य सुरक्षां प्राथमिकतां कृत्वा दून-आरक्षकविभागेन मङ्गलवासरे प्रातःकाले एव समग्र-जनपदे सघन-निरीक्षण-अभियानं प्रचालितम्।
वरिष्ठ-आरक्षक-अधीक्षकस्य प्रमोद-डोभालस्य निर्देशानुसारं विभिन्न-थाना-क्षेत्रेषु आरक्षकदलैः सार्वजनिक-स्थलेषु उद्यानानां च समीपे निरीक्षणं वर्धयित्वा जनानां कृते सुरक्षायाः आश्वासनं प्रदत्तम्।दलैः प्रातःकाले भ्रमणार्थं निर्गताः वृद्धाः, महिलाः, विद्यालय-शिशूनां अभिभावकाः तथा कार्यरताः महिलाः इत्येतै: सह संवादः कृतः, तेभ्यः च सुरक्षायाः विषये आश्वासनं दत्तम्। अस्मिन् काले पुलिसकर्मिभिः जनैः सह संवादं कृत्वा तेषां समस्याः अपि श्रुताः।
अभियानस्य अन्तर्गतं विद्यालय-छात्रिण: स्त्री-अपराधानां विषये जागरूकाः कृताः, आत्मरक्षणस्य मूल-उपायाः, सामाजिक-माध्यमानां सुरक्षित-उपयोगः तथा अपरिचित-जनात् सावधानतायाः विषये अपि सूचना प्रदत्ता।
आरक्षक-दलैः उद्यानेषु तेषां च समीप-क्षेत्रेषु संशयास्पद-रूपेण सञ्चरन्तः व्यक्तयः परीक्षिताः, आवश्यक-प्रश्नोत्तरं च कृतम्। आरक्षकद्वारा उक्तं यत् वरिष्ठ-आरक्षक-अधीक्षकस्य निर्देशानां अनुपालनेन जनपदे दिवा-रात्रं सघन-निरीक्षणं सत्यापन-अभियानं च निरन्तरं प्रवर्तिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता