भारतस्य स्वास्थ्य-प्रणाली पारम्परिक-ज्ञानस्य आधुनिक-चिकित्सायाः समन्वयस्य च उदाहरणम् – नड्डा
नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। केन्द्रीय-स्वास्थ्यमन्त्री जे.पी.नड्डा विश्व-स्वास्थ्य-दिवसस्य अवसरे देशव्यापिनं जनान् स्वास्थ्यं प्रति जागरूकतां वोढुं संतुलित-जीवनशैलीं च अवलम्बितुं सन्देशं दत्तवान्। मङ्गलवासरे एक्स-माध्यमे लिखिते स्वसन्देशे नड्ड
विश्व स्वास्थ्य दिवस


नवदिल्ली, ०७ अप्रैलमासः (हि.स.)। केन्द्रीय-स्वास्थ्यमन्त्री जे.पी.नड्डा विश्व-स्वास्थ्य-दिवसस्य अवसरे देशव्यापिनं जनान् स्वास्थ्यं प्रति जागरूकतां वोढुं संतुलित-जीवनशैलीं च अवलम्बितुं सन्देशं दत्तवान्। मङ्गलवासरे एक्स-माध्यमे लिखिते स्वसन्देशे नड्डा उक्तवान् यत् भारतस्य स्वास्थ्य-प्रणाली पारम्परिक-ज्ञानस्य आधुनिक-चिकित्सायाः समन्वयस्य च उदाहरणम् अस्ति, या न केवलं देशे, अपि तु वैश्विक-स्तरेऽपि जनानां जीवनम् उत्तमं कर्तुं योगदानं ददाति।

तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्र-मोदी-नेतृत्वे स्वास्थ्य-क्षेत्रे बहवः महत्त्वपूर्णानि परिवर्तनानि अभवन्। आयुष्मान-भारत-योजना तथा प्रधानमन्त्री-भारतीय-जनऔषधि-परियोजना इत्यादयः प्रयत्नाः दरिद्र-आवश्यक-जनानां कृते उपचारं अधिकं सुलभं च अकुर्वन्। एताभ्यां योजनाभ्यां देशस्य लक्षाधिकाः जनाः स्वास्थ्य-सेवानां लाभं प्राप्नुवन्ति।

जे.पी.नड्डा अस्मिन् अवसरे चिकित्सकानां परिचारिकाणां सर्वेषां अग्र-पंक्ति-स्वास्थ्यकर्मिणां च योगदानम् अपि प्रशंसितवान्। तेन उक्तं यत् तेषां परिश्रम-समर्पणाभ्यां एव देशस्य स्वास्थ्य-व्यवस्था सुदृढा स्थिता अस्ति। तेन आह्वानं कृतं यत् सर्वकारः समाजस्य सर्ववर्गैः सह मिलित्वा स्वस्थस्य सशक्तस्य भारतस्य च निर्माणाय अग्रे आगच्छेयुः।

उल्लेखनीयम् अस्ति यत् विश्व-स्वास्थ्य-दिवसः प्रतिवर्षं ७ अप्रैलमासे आचर्यते। अयं दिवसः विश्व-स्वास्थ्य-सङ्घठनस्य स्थापनाया वार्षिकोत्सव-रूपेणापि मन्यते, यस्य प्रारम्भः १९४८-वर्षे अभवत्। अस्य दिवसस्य मुख्यम् उद्देश्यं जनान् स्वास्थ्यं प्रति जागरूकान् कर्तुं विश्वव्यापि उत्तम-स्वास्थ्य-सुविधानां प्रोत्साहनं च अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता