केन्द्र-सर्वकारेण ‘कौशल-परिणाम-निधि’-अभियानं आरब्धम्, युवानः रोजगारं प्राप्स्यन्ति
नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। केन्द्र-सर्वकारेण देशस्य युवभ्यः रोजगार-प्रदानाय ‘कौशल-परिणाम-निधि’-अभियानस्य आरम्भः कृतः। अस्याः निधेः माध्यमेन देशस्य निम्न-आय-वर्गस्य युवभ्यः स्थायी सम्मानजनकः च रोजगारः प्रदास्यते। केन्द्रीय-कौशल-विकास-उद्यमिता
कार्यक्रम में मौजूद केंद्रीय कौशल विकास और उद्यमिता राज्यमंत्री (स्वतंत्र प्रभार) एवं शिक्षा राज्य मंत्री जयंत चौधरी


नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। केन्द्र-सर्वकारेण देशस्य युवभ्यः रोजगार-प्रदानाय ‘कौशल-परिणाम-निधि’-अभियानस्य आरम्भः कृतः। अस्याः निधेः माध्यमेन देशस्य निम्न-आय-वर्गस्य युवभ्यः स्थायी सम्मानजनकः च रोजगारः प्रदास्यते।

केन्द्रीय-कौशल-विकास-उद्यमिता-राज्यमन्त्री (स्वतन्त्र-प्रभारः) तथा शिक्षा-राज्यमन्त्री जयन्त-चौधरी अत्र बुधवासरे अभियानस्य शुभारम्भं कृतवान्। अस्मिन् अवसरे तेन उक्तं यत् भारतस्य कौशल-विकास-यात्रा अधुना परिणामेषु केन्द्रिता नूतन-चरणे प्रविशति। एषः निधिः युवभ्यः वास्तविक-अवसरान्, स्थायी-रोजगारं कार्यस्य गरिमां च दातुं प्रतिबद्धतायाः प्रतीकः अस्ति। सर्वकारः उद्योगः परोपकारी-सहभागिनः च एकत्र आनयित्वा विशाल-स्तरे प्रभावः सर्जितुं शक्यते। ‘कौशल-परिणाम-निधिः’ राष्ट्रीय-कौशल-विकास-निगमस्य (एनएसडीसी) अन्तर्गतं प्रवर्तिता भविष्यति तथा अस्मिन् परोपकारी-गैर-लाभकारी-सङ्घटनानां सहयोगः गृहीतः भविष्यति।

कौशल-विकास-मन्त्रालयस्य वरिष्ठा आर्थिक-परामर्शदात्री मनीषा-सेन्सरमा उक्तवती यत् भारतस्य कौशल-विकास-परिसंस्था परिपक्वा भवति तथा नीति-विमर्शः निवेशात् परिणामाभिमुखं गच्छति। परिणाम-आधारितः वित्तीय-आदर्शः उत्तरदायित्वं दृढीकरिष्यति तथा निवेशं प्रत्यक्षं रोजगार-परिणामैः सह संयोजयिष्यति।

राष्ट्रीय-कौशल-विकास-निगमस्य मुख्य-कार्यकारी-अधिकारी अरुण-कुमार-पिल्लै उक्तवान् यत् कौशल-प्रभाव-बॉण्ड-इत्यस्य अनुभवेन सिद्धं यत् यदा प्रशिक्षण-प्रदातॄणां, नियोजकानां, निवेशकानां सर्वकारस्य च प्रोत्साहनानि रोजगार-परिणामेषु केन्द्रितानि भवन्ति तदा सम्पूर्णा कौशल-विकास-परिसंस्था अधिका प्रभावी भवति। कौशल-परिणाम-निधिः अस्य आदर्शस्य विशाल-स्तरे प्रवर्तनस्य अनुवर्ती शृङ्खला अस्ति।

उल्लेखनीयम् यत् कौशल-परिणाम-निधिः भारतस्य प्रथम-परिणाम-आधारित-कार्यक्रमः ‘स्किल-इम्पैक्ट-बॉण्ड’ इत्यस्य सफलतायाः आधारेण अस्ति। वर्षे २०२१ आरब्धे अस्मिन् बॉण्ड-अन्तर्गतं २१ राज्येषु ३४,००० अधिकाः युवानः प्रशिक्षिताः, येषु ७४ प्रतिशतं महिलाः आसन्। स्वतन्त्र-सत्यापनस्य अनुसारं ९२ प्रतिशतं प्रशिक्षार्थिनः प्रमाणिताः, ७६ प्रतिशतं रोजगारं प्राप्तवन्तः, ६२ प्रतिशतं च सेवायां अवस्थिताः। नूतनस्य निधेः आदर्शः मिश्रित-वित्त-पद्धत्याः आधारेण भविष्यति, यस्मिन् सर्वकारस्य वैयक्तिक-क्षेत्रस्य च निवेशः भविष्यति। एषः याचना-आधारितः कौशल-विकास-आदर्शः आईटी-आईटीईएस, बीएफएसआई, ऑटोमोबाइल, हेल्थकेयर, लॉजिस्टिक्स, हरित-रोजगाराः तथा इलेक्ट्रॉनिक्स इत्यादिषु क्षेत्रेषु केन्द्रितः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता