विकसित उत्तर प्रदेशस्य विकसित भारतस्य च आधारो भविष्यति कृषिविज्ञानकांग्रेसगणः : योगी आदित्यनाथः
मुख्यमंत्री लखनऊनगरे विज्ञान कांग्रेस इत्यस्य उद्घाटन सत्रे कृषि वैज्ञानिकानां कृतः सम्मानः लखनऊ, 08 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः तथा कृषि मन्त्री सूर्यप्रताप शाही बुधवासरे उत्तरप्रदेश कृषि अनुसंधान परिषद् उपकार
कृषि वैज्ञानिक का सम्मान करते मुख्यमंत्री योगी आदित्यनाथ


मुख्यमंत्री लखनऊनगरे विज्ञान कांग्रेस इत्यस्य उद्घाटन सत्रे कृषि वैज्ञानिकानां कृतः सम्मानः

लखनऊ, 08 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः तथा कृषि मन्त्री सूर्यप्रताप शाही बुधवासरे उत्तरप्रदेश कृषि अनुसंधान परिषद् उपकार इत्यस्य पक्षतः गन्ना अनुसंधान संस्थान लखनऊ नगरे आयोजित त्रिदिवसीय कृषि विज्ञान कांग्रेस २०२६ इत्यस्य उद्घाटनम् अकुरुताम्। अस्मिन् अवसरे मुख्यमन्त्री उत्तरप्रदेश कृषि वैज्ञानिक सम्मान योजना २०२५ २६ अन्तर्गतं चयनितान् उत्कृष्टवैज्ञानिकान् अपि सम्मानितवान्।

कृषि विज्ञान कांग्रेसं सम्बोधयन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् कृषि विज्ञान कांग्रेस विकसित उत्तरप्रदेशस्य तथा विकसित भारतस्य आधारः भविष्यति। सः अवदत् यत् तकनीकि आवश्यकास्ति, किन्तु अल्पव्ययेन अल्पसंसाधनैः अधिकोत्पादनं कथं सम्भवति इत्यस्मिन् विषये कार्यं कर्तव्यम्। अधुना क्षेत्रमेव प्रयोगशाला भवेत् इति दिशि अग्रे गन्तव्यम्। आव्हानानि सदा आगच्छन्ति। अस्माभिः देशीयपद्धतिः विकसितव्या।

अन्नदाता सुखी चेत् देशः समाजश्च सुखिनौ भविष्यतः। मुख्यमन्त्री अवदत् यत् अन्नदाता सुखी भवेत् तर्हि देशः समाजश्च सुखिनौ भवतः। सर्वकारेण कृषि तथा कृषिकार्यं स्वकार्यसूच्याः भागः कृतः। सः अवदत् यत् दशवर्षपर्यन्तं गन्ना कृषकाणामवशिष्टम् आसीत् तथा च चीनी मिलाः निरुद्धाः आसन्, किन्तु अद्य भारतस्य पञ्चपञ्चाशत् प्रतिशतं गन्ना उत्पादनम् केवलं उत्तरप्रदेशेन क्रियते। प्रदेशे द्विशताधिकाः द्वाविंशतिः चीनी मिलाः सञ्चलन्ति। गन्नामूल्यस्य भुगतानं विलम्बेन न भवति।

योगी आदित्यनाथः अवदत् यत् २०१४ पूर्वं कृषकः आत्महत्या करोति स्म, पलायनं करोति स्म, सः पीडितः आसीत्। तदा कृषकः केवलं निर्वाचनविषयः आसीत्। कृषकस्य मनसि अविश्वासः आसीत्, किन्तु अद्य द्विचक्रसरकारे कृषकः आत्महत्या न करोति। कृषकानां आयः बहुगुणितः अभवत्। बीजादारभ्य उत्पादस्य विक्रयपर्यन्तं नीति अस्ति। कृषकाय सर्वप्रकारेण साहाय्यं लभ्यते।

मुख्यमन्त्री अवदत् यत् एकया साजिशया ग्रामस्य आत्मनिर्भरएककं भङ्गितम्। पूर्वं कृषकः केवलं कृषिकार्ये सीमितः न आसीत्, सः कारीगरः अपि आसीत्। अस्माकं कृषकः उत्पादकः उद्यमी च आसीत्। आक्रान्तारः कृषेः सह भारतस्य उद्यमितायाः अपि आघातं कृतवन्तः। यः कृषकः पूर्वं उत्पादकः आसीत्, तस्मै केवलं कच्चद्रव्यनिर्माणस्य अधिकारः दत्तः। फलतः कृषकः दीनावस्थां प्राप्तवान्।

योगी अवदत् यत् पूर्वं विद्युत् जलं च न आसीत्, समये बीज उर्वरकं च न लभ्यते स्म। कृषकः दीनः आसीत्। अधुना कृषकस्य स्थिति सुधृता। प्रत्येकायै गव्यै मासे १५०० रूप्यकाणि तस्याः पालनपोषणाय सरकारेण दीयन्ते। प्राकृतिककृष्या सह गौशालाः सम्बद्धाः भवन्तु। बुन्देलखण्डप्रदेशे अन्ना प्रथा समाप्ता अभवत्।

उद्घाटनसत्रे विशिष्टातिथिरूपेण राज्यमन्त्री कृषि बलदेवसिंह औलख, गौसेवा आयोगस्य अध्यक्षः श्याम बिहारी गुप्तः, उपकारस्य अध्यक्षः कैप्टन विकास गुप्तः, इक्रीसेटस्य महानिदेशकः डा. हिमांशु पाठकः, कृषि उत्पादन आयुक्तः दीपक कुमारः तथा प्रमुख सचिव कृषि रवीन्द्र कुमारः उपस्थिताः आसन्।--------------

हिन्दुस्थान समाचार