Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ०८ अप्रैलमासः (हि.स.)। सप्त-देशानां निर्वाचन-प्रबन्धन-निकायानां द्वादश विदेशी-प्रतिनिधयः तथा भारत-निर्वाचन-आयोगस्य त्रयः प्रतिनिधयः बुधवासरे अन्ताराष्ट्रिय-निर्वाचन-आगन्तुक-कार्यक्रमस्य (आईईवीपी) अन्तर्गतं गुवाहाटी-स्थितं लोकप्रिय-गोपीनाथ-बरदलै-अन्ताराष्ट्रिय-विमानक्षेत्रं प्राप्तवन्तः।
द्विदिवसीयस्य अस्य प्रवासस्य उद्देश्यं वैश्विक-स्तरे निर्वाचन-सहयोगं प्रोत्साहयितुं तथा निर्वाचन-प्रक्रियायाः विविध-पक्षाणाम् अवलोकनं कर्तुम् अस्ति। अस्मिन् समये प्रतिनिधि-मण्डलं मतदान-प्रक्रियाम्, प्रशासनिक-व्यवस्थाः तथा निर्वाचन-प्रबन्धनस्य कार्यप्रणालीं समीपतः अध्ययनं करिष्यति।
अधिकारिणाम् अनुसारं, एषः कार्यक्रमः लोकतान्त्रिक-व्यवस्थासु पारदर्शितां पारस्परिक-सहयोगं च सुदृढीकर्तुं दिशि महत्त्वपूर्णः प्रयत्नः अस्ति। अनेन सहभागी-देशानां मध्ये अनुभव-आदान-प्रदानस्य तथा उत्तम-निर्वाचन-प्रथानां सहभाग-करणस्य अवसरः प्राप्तः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता