Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 08 अप्रैलमासः (हि.स.)।
असमराज्यस्य मुख्यमंत्री डॉ. हिमन्तबिस्वसरमा उक्तवान् यत् राज्यस्य विविधजातिजनजातीनां समृद्धा सांस्कृतिकपरम्परा अद्यतनकाले वैश्विकस्तरे असमस्य विशिष्टां पहचानं प्रतिष्ठापितवती अस्ति।
मुख्यमन्त्री बुधवासरे स्वस्य सामाजिकमाध्यमसन्देशे उक्तवान् यत् यथा विश्वस्य अन्याः लोकसंस्कृतयः, तथा असमस्य लोकसंस्कृतिरपि प्राचीना अत्यन्तसमृद्धा च अस्ति। तेन उक्तं यत् अस्याः सांस्कृतिकधरोहरायाः संरक्षणाय तथा वैश्विकस्तरे प्रचारप्रसाराय शासनद्वारा कृतानां प्रयासानां जनसमर्थनं सहयोगश्च अभूतपूर्वः प्राप्तः।
बिहू, झूमर तथा बागरुम्बा इत्यादीनां प्रमुखसांस्कृतिककार्यक्रमाणां उल्लेखं कृत्वा मुख्यमन्त्री उक्तवान् यत् एतेषां सफलतायाः पृष्ठे नवपीढ्याः उत्साहः उत्तरदायित्वबोधश्च स्पष्टतया दृश्यते, यत् शुभसूचकं अस्ति।
तेन उक्तं यत् आगामिकाले अपि राज्यसर्वकारः स्वकीयाः सांस्कृतिकमूलानि दृढतया संरक्ष्य असमस्य समृद्धाः परम्पराः विश्वमञ्चे अधिकदृढतया प्रस्तोष्यति।
हिन्दुस्थान समाचार