छत्तीसगढस्य मुख्यमंत्री सायः अद्य केंद्रीय गृह मंत्री शाहेन सह करिष्यति मेलनम्
रायपुरम् 08 अप्रैलमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेव सायो द्विदिवसीयदिल्लीभ्रमणे अस्ति। अस्मिन् अवधौ सः मङ्गलवासरे प्रधानमन्त्री नरेन्द्रमोदी, भाजपाराष्ट्रियाध्यक्ष नितिननवीनस्तथा अन्यैः प्रमुखनेतृभिः सह मेलितवान्। अद्य बुधवासर
छत्तीसगढ़ के मुख्यमंत्री साय और केंद्रीय गृह मंत्री शाह की मुलाकात फाइल फाेटाे


रायपुरम् 08 अप्रैलमासः (हि.स.)।

छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेव सायो द्विदिवसीयदिल्लीभ्रमणे अस्ति। अस्मिन् अवधौ सः मङ्गलवासरे प्रधानमन्त्री नरेन्द्रमोदी, भाजपाराष्ट्रियाध्यक्ष नितिननवीनस्तथा अन्यैः प्रमुखनेतृभिः सह मेलितवान्। अद्य बुधवासरे सः केन्द्रीयगृहमन्त्री अमितशाहेन सह अपि मेलिष्यति।

अस्यां गोष्ठ्यां मुख्यमंत्री साय गृहमन्त्रिणा सह “बस्तर विकास २.०” इत्यस्य विषये महत्त्वपूर्णां चर्चां कर्तुं शक्नोति। तथा नक्सलसमस्यायाः शमनानन्तरं बस्तरप्रदेशस्य वर्तमानस्थितेः विवरणं अपि दास्यति।

तत्सह सः अन्यैः अपि केन्द्रीयमन्त्रिभिः सह मिलित्वा छत्तीसगढस्य विकाससम्बद्धानां विविधविषयानां विषये चर्चां करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमंत्री विष्णुदेव सायः श्वः प्रातःकाले दिल्लीतः रायपुरं प्रत्यागमिष्यति।

---------------

हिन्दुस्थान समाचार