असमस्य मुख्यमंत्री डॉ.हिमंत बिस्व सरमा प्राप्नोत् बाबा नगरी देवघरं, बाबा बैद्यनाथस्य कृतवान् दर्शन-पूजनम्
देवघरम्,08 अप्रैलमासः (हि.स.)। असमराज्यस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा बुधवासरे बाबा-नगर्यां देवघरे आगत्य विश्वविख्याते बाबा वैद्यनाथ धाम मन्दिरे विधिपूर्वकं पूजां कृत्वा भगवान् भोलेनाथस्य आशीर्वादं प्राप्तवान्। देवघर-नगर्यां तस्य आगमने सति ग
असम के निवर्तमान मुख्यमंत्री हेमंता बिस्वा सरमा पहुंचे बाबा नगरी देवघर


देवघरम्,08 अप्रैलमासः (हि.स.)। असमराज्यस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा बुधवासरे बाबा-नगर्यां देवघरे आगत्य विश्वविख्याते बाबा वैद्यनाथ धाम मन्दिरे विधिपूर्वकं पूजां कृत्वा भगवान् भोलेनाथस्य आशीर्वादं प्राप्तवान्। देवघर-नगर्यां तस्य आगमने सति गोड्डा-क्षेत्रस्य सांसदः डॉ. निशिकान्त दुबे अपि तेन सह उपस्थितः आसीत्।

देवघर-विमानपत्तने भारतीय-जनता-पार्टी-कार्यकर्तारः तस्य हार्दिकं स्वागतं कृतवन्तः। अस्मिन् अवसरि झारखण्ड-राज्यस्य पूर्व-कृषिमन्त्री रणधीरसिंहः परम्परागतरीत्या तस्य अभिनन्दनं कृतवान्। स्वागतस्य अनन्तरं तस्य काफिलः नगरं प्रति प्रस्थितः।

नगरप्रवेशानन्तरं मुख्यमंत्री प्रथमं अनुकूलचन्द्र-ठाकुर-सत्संग-आश्रमं गतवान्, यत्र सः ठाकुरस्य आशीर्वादं प्राप्तवान्। अत्र सांसदः निशिकान्त दुबे पूर्वमेव उपस्थितः सन् तस्य स्वागतं कृतवान्।

ततः अनन्तरं मुख्यमंत्रिणः काफिलः बाबा वैद्यनाथ मन्दिरं प्राप्तवान्। मन्दिर-परिसरे आगत्य नियमानुसारं तस्य हस्तौ प्रक्षालितौ, ततः सः गर्भगृहं प्रविश्य देवाधिदेवस्य महादेवस्य विधिपूर्वकं पूजां कृतवान् तथा देशस्य विश्वस्य च कल्याणं कामितवान्।माध्यमैः सह वार्तालापसमये मुख्यमंत्री डॉ. हिमन्त बिस्व शर्मा किमपि राजनैतिकं वक्तुं न इच्छत्। सः संक्षेपेण उक्तवान् यत् गुरुवासरे असमराज्ये निर्वाचनं भविष्यति, अतः अस्मिन् समये किमपि वक्तुं न उचितम्।

सः उक्तवान् यत् निर्वाचनानन्तरं पुनरागत्य पत्रकारैः सह विस्तरेण संवादं करिष्यति। मुख्यमंत्रीस्य आगमनस्य सन्दर्भे विमानपत्तनात् सर्किट-गृहपर्यन्तं सुरक्षा-व्यवस्था अत्यन्तं सुदृढा आसीत्। सम्पूर्णे मार्गे पुलिस-प्रशासनं सज्जं स्थितम्।

अस्मिन् अवसरे गोड्डा-सांसदः निशिकान्त दुबे, पूर्व-भाजपा-जिलाध्यक्षः दिवाकर गुप्तः, पूर्व-विधायकः नारायण दासः, नगराध्यक्षः सोनधारी झा तथा बहवः भाजपा-कार्यकर्तारः उपस्थिताः आसन्।--------------

हिन्दुस्थान समाचार