Enter your Email Address to subscribe to our newsletters

जयपुर-नगरम्, ०८ अप्रैलमासः (हि.स.)। जयपुर-इण्टरनेशनल-फिल्म-फेस्टिवल तथा न्यू-दिल्ली-फिल्म-फेस्टिवल इत्येताभ्यां प्रस्तुतस्य ‘सिनेमा-ऑफ-द-ईयर (सीटीए)–इण्डियन-सिनेमा-अवार्ड्स (आईसीए) २०२५’ इत्यस्य कृते हिन्दी-चलचित्राणां आधिकारिक-नामांकनानि घोषितानि।
वर्षे २०२५ इति संवत्सरे प्रदर्शितानां चलचित्राणां मध्ये चयनितानि एतानि नामांकनानि भारतीय-चलचित्र-जगतः सृजनात्मकता-विविधता-समकालीन-विषयान् प्रकाशयन्ति। आयोजकैः उक्तं यत् एते पुरस्काराः प्रतिवर्षं हिन्दी-चलचित्रेषु उत्कृष्ट-कृत्यस्य अभिज्ञानार्थं सम्मानार्थं च आरब्धाः। चयन-प्रक्रियायाः पारदर्शितां निष्पक्षतां च सुनिश्चेतुं ज्यूरी-समितौ चलचित्र-उद्योगस्य त्रयः विशेषज्ञाः, कृत्रिम-बुद्धिमत्ता-प्रणाली (एआई) तथा आयोजन-समितेः एकः प्रतिनिधिः अपि सम्मिलितः।
अस्मिन् वर्षे ‘सर्वश्रेष्ठ-चलचित्र’ इति श्रेण्यां महावीर-नरसिंहः, धुरन्धरः, हक्, ‘ह्यूमन्स-इन-द-लूप’, ‘जुगनुमा-द-फेबल’, ‘द-मेहता-बॉयज’ तथा ‘मेट्रो… इनदिनों’ इत्यादीनि चलचित्राणि नामांकितानि सन्ति। तदतिरिक्तं निर्देशनम्, अभिनयः, लेखनम्, सङ्गीतम्, छायांकनम्, सम्पादनम् इत्यादिषु अपि विविधासु तकनीकी-श्रेण्यासु बहवः प्रमुखाः कलाकाराः सृजनकर्तारः च स्थानं प्राप्तवन्तः।
संस्थापक-निदेशकः हनु-रोज: उक्तवान् यत् अस्य वर्षस्य नामांकन-सूची भारतीय-चलचित्रेषु नूतन-प्रयोगान् विविध-विषयान् च दर्शयति। तेन उक्तं यत् एतेषां पुरस्काराणां माध्यमेन तेषां चलचित्र-निर्मातॄणां कलाकाराणां च मंचः प्रदीयते, ये स्वकार्येण दर्शकानां समीक्षकानां च मनसि प्रगाढां छविं स्थापितवन्तः।
प्रवक्ता नितिन-शर्मा अपि अवदत् यत् एष: प्रयत्न: पूर्णतया लोकतान्त्रिक-रीत्या उच्च-मानदण्डेषु आधृता अस्ति, यस्मिन् कस्यापि बाह्य-प्रभावस्य स्थानं नास्ति। चयन-प्रक्रियायां केवलं कार्यस्य गुणवत्ता एव आधाररूपेण स्वीकृता अस्ति। आयोजकैः अपि उक्तं यत् विजेतॄणां घोषणा शीघ्रं क्रियते।
विशेषतया उल्लेखनीयम् अस्ति यत् एतेषां पुरस्काराणां कृते किमपि भौतिक-सांस्कृतिक-आयोजनं न भविष्यति, अपितु सम्पूर्णा प्रक्रिया औपचारिक-रूपेणैव घोषिता भविष्यति। अनन्तरं दक्षिण-भारतीय-चलचित्राणां कृते पृथक् नामांकन-प्रक्रिया अपि आरभ्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता