Enter your Email Address to subscribe to our newsletters

नवदेहली, 08 अप्रैलमासः (हि.स.)।दिल्ली उच्चन्यायालयः पत्रकार-राणा-अय्युब-महोदयायाः २०१३ तः २०१७ वर्षपर्यन्तं हिन्दू-देवी-देवतानां विनायक-सावरकरस्य च उपरि कृतानां पोस्ट-लेखनानां विषये दृढं आपत्तिं प्रकटितवान्। न्यायमूर्तिः पुरुषेन्द्र कुमार कौरवः अवदत् यत् राणा-अय्युब-महोदयायाः लेखाः अपमानजनकाः, उत्तेजकाः, साम्प्रदायिकाश्च सन्ति। उच्चन्यायालयः एतदर्थं दिल्ली-आरक्षकबलं सामाजिक-माध्यम-मञ्चं 'X' (पूर्वतन-ट्विटर) च विरुद्धं आवश्यक-कार्यवाह्यै आदेशं दत्तवान्। उच्चन्यायालयः राणा-अय्युब-महोदयायै सूचनापत्रं (नोटिस) प्रेषयित्वा प्रत्युत्तरं याचितवान्। अस्य प्रकरणस्य आगामिनी शुनवाई (सुनवायी) १० अप्रैल दिनाङ्के भविष्यति।
उच्चन्यायालयः राणा-अय्युब-महोदयायाः अतिरिक्तं दिल्ली-आरक्षकबलस्यापि कृते सूचनापत्रं निर्गतवान्। उच्चन्यायालयः उक्तवान् यत् अस्मिन् प्रकरणे गम्भीरतया विचारस्य आवश्यकता वर्तते। न्यायालयेन उक्तं यत् 'X', दिल्ली-आरक्षकबलं तथा च केन्द्रसर्वकारः समन्वयेन कार्यं कुर्युः। एषा याचिका अमिता सचदेवा महोदया द्वारा प्रख्यापिता अस्ति। याचिकाकर्त्र्या पूर्वं साकेत-न्यायालये याचिका प्रस्तुता आसीत्।
साकेत-न्यायालयः राणा-अय्युब-विरुद्धं प्राथमिकीं (FIR) पञ्जीकर्तुं आदेशं दत्त्वा दिल्ली-आरक्षकबलं अन्वेषणाय निर्देशितवान् आसीत्। दिल्ली-आरक्षकबलेन उक्तं यत् येषां लेखानां (पोस्ट) कृते याचिका प्रख्यापिता, ते अधुना 'X' मञ्चे उपलब्धाः न सन्ति। अमिता सचदेवा स्वयाचिकायां कथितवती यत् राणा-अय्युब-महोदया हिन्दू-देवयोः राम-सीतयोः, वीर-सावरकरस्य च अपमानं कृत्वा हिन्दू-राष्ट्रवाद-भारत-विरोधि-भावनाः प्रदर्शयितुं कार्यं कृतवती। अमिता सचदेवा अवदत् यत् सा सनातनधर्मस्य अनुयायिनी अस्ति। यदा सा राणा-अय्युब-महोदयायाः लेखनं दृष्टवती, तदा सा अतीव आघातानुभूतिं कृतवती। अमिता स्वयाचिकायां २०१३ तः २०१७ वर्षपर्यन्तस्य राणा-अय्युब-महोदयायाः सप्त-लेखानां (पोस्ट) उल्लेखं कृतवती अस्ति।
---------------
हिन्दुस्थान समाचार