Enter your Email Address to subscribe to our newsletters


नवदिल्ली, ०८ अप्रैलमासः (हि.स.) – असमे, केरळे पुडुचेरी-केन्द्रशासित-प्रदेशे ०९ अप्रैलमासे (गुरुवासरे) एकस्मिनैव चरणे विधानसभा-निर्वाचनस्य मतदानं क्रियते। निर्वाचन-आयोगः स्थानीय-प्रशासनं च शांतिपूर्णम्, निष्पक्षम्, पारदर्शी च मतदानं सुनिश्चेतुम् व्यापक-व्यवस्थाः कृतवती।
असमस्य १२६, केरळस्य १४०, पुडुचेरी-प्रदेशस्य ३० निर्वाचन-आसनानाम् इत्यत्र प्रत्याशिनां भाग्यं ०९ अप्रैलमासे ईवीएममध्ये निर्धारितं भविष्यति। अस्मिन्नेव चरणे सम्पूर्ण-मतदान-प्रक्रिया सम्पन्ना भविष्यति।
असमे २५,००,००,००० मतदातारः (पुरुषाः १२,५१,५५२, स्त्रियः १२,५२२,५९३, तृतीय-लिङ्गस्य ३१८ मतदाता) निर्वाचनाधिकारं प्रयोगं करिष्यन्ति। १८-१९ आयु-वर्गे ५.७५ लक्षं नवयुवकाः प्रथमवारं मतदानं करिष्यन्ति। असमस्य १२६ आसनानां मध्ये ७२२ प्रत्याशिनां स्पर्धा, बहुमत-संख्या ६४।केरलस्य १४० आसनानां मध्ये ८९० प्रत्याशिनां स्पर्धा, त्रिकोणीय-प्रतिस्पर्धा प्रमुख-पक्षैः सह। बहुमताय ७१ आसनानि आवश्यकानि। मतदातारः २.७१ कोटिः (पुरुषाः १.३२ कोटिः, स्त्रियः १.३९ कोटिः, तृतीय-लिङ्गस्य २७३)।
पुडुचेरी-प्रदेशे ३० आसनानां मध्ये २९४ प्रत्याशिनां स्पर्धा, पञ्च आसनेषु अनुसूचित-जातीय-आरक्षिताः, सर्वकाराय बहुमताय १६ आसनानि आवश्यकानि। मतदातारः ९.४४ लक्षं (पुरुषाः ४.४३ लक्षं, स्त्रियः ५ लक्षं, तृतीय-लिङ्गस्य १३९)।
असमे ३१,४९० मतदान-केंद्राणि, २५,०५४,४६३ मतदातारः। मतदान-केंद्राणां निरीक्षणं लाइव-वेबकास्ट -द्वारा। सीईओ-अनुराग-गोयलस्य नेतृत्वे अधिकारिणः मतदान-प्रक्रियायाः दायित्व-पालनं कुर्वन्ति। केंद्रीय-पर्यवेक्षकाः, वेबकास्टिंग-सुविधाः, संवेदनशील-केंद्रेषु सूक्ष्म-पर्यवेक्षकाः, केंद्रीय-सशस्त्र-बलानाम् सज्जता सुनिश्चिता।
मतदान-कर्मचारिणः १,५१,१३२, बैलेट-यूनिट् ४१,३२०, कंट्रोल-यूनिट् ४३,९७५, वीवीपैट ४३,९९७। आपात-स्थितेः हेतुः रिज़र्व-यन्त्राणि, अतिरिक्त-मतदान-कर्मचारिणः प्रतीक्षारतः।
मतदाता-विवरणानि – पुरुषाः १२,५३१,५५२, स्त्रियः १२,५२२,५९३, तृतीय-लिङ्गस्य ३१८, ६३,४२३ सेवा-मतदातारः, १८-१९ आयुः ६४२,३१४, ८०+ वर्षः २५०,००६, दिव्यांगः २,०५,०८५। वरिष्ठः (८५+) तथा दिव्यांग-मतदातृभ्यः डाक-मतपत्र-सुविधा।
केरलस्य मतदान-केंद्रेषु सुरक्षा-व्यवस्था कठोरा। ७ प्रातः – ६ सायं मतदानम्। मतदान-केन्द्राणि ३०,४९५, सहायकानि २४।
पुडुचेरी ३० आसनानि, मतदान-केन्द्राणि १,०९९। ईवीएम-कंट्रोल-यूनिट्-वीवीपैट-आपात-स्थित्याः हेतुः सुरक्षिताः। मतदानानन्तरम् ईवीएम-केंद्राणि सुरक्षित-प्रकोष्ठेषु, २४-होरा CCTV, अर्धसैनिक-बल-आरक्षकाणां त्रिस्तरीया सुरक्षा।
निर्वाचनानन्तरं मतगणना ०४ मईमासे।
हिन्दुस्थान समाचार / अंशु गुप्ता