Enter your Email Address to subscribe to our newsletters


पूर्व-केंद्रीय-मन्त्री तथा काँग्रेस्-नेत्री मोहसिना-किदवई नोएडा-स्थिते मेट्रो-रुग्णालये ९४ वर्ष-आयुषि हृदयाघातात् निधनं प्राप्तवती। तस्या पार्थिवं निजामुद्दीन-श्मशाने इस्लाम-रीति-नियमेन भूमौ निखातनं कृतम्।
काँग्रेस-राष्ट्रीय-अध्यक्षः मल्लिकार्जुन-खरगे, पूर्व-मन्त्री सलमान-खुर्शीद्, जयराम-रमेशः, सांसदः तनुज-पुनिया, नेता-प्रतिपक्षः राहुल-गान्धी चान्ये महत्त्वपूर्णाः नेतारः तथा कार्यकर्तारः अन्तिम-दर्शनं कृत्वा श्रद्धांजलिं प्रदातुं श्मशानम् आगताः।
मोहसिना-किदवई मूलतः बाराबंकी-निवासी आसीत्, तिस्रः कन्याः तस्या: सन्ति तथा सा पूर्व-सांसदः अपि आसीत्। सा इन्दिरा-गांधी, राजीव-गांधी तथा सोनिया-गांधी शासनकाले केंद्रीय-मन्त्री-रूपेण स्वास्थ्य-नगरीयविकास-पर्यटन-नागरिकउड्डयन-मन्त्रालयेषु कार्यं कृतवती।
हिन्दुस्थान समाचार / अंशु गुप्ता