सतना - मन्त्री विजयवर्गीयः जैतवारायां 1.38 कोटिरूप्यकाणां व्ययेन निर्मितस्य नगरपरिषद्-भवनस्य लोकार्पणं कृतवान्
सतना, 08 अप्रैलमासः (हि.स.)।मध्यप्रदेशस्य नगरीयविकासमन्त्री तथा सतनाजनपदस्य प्रभारीमन्त्री कैलाश विजयवर्गीयः बुधवासरे सतनाप्रवासकाले जैतवारां गत्वा एककोटि-अष्टत्रिंशल्लक्ष (1.38) रूप्यकाणां व्ययेन निर्मितस्य नगरपरिषद्-कार्यालयस्य नवीनभवनस्य लोकार्प
नगर परिषद भवन के लोकार्पण कार्यक्रम को संबोधित करते हुए कैलाश विजयवर्गीय


सतना, 08 अप्रैलमासः (हि.स.)।मध्यप्रदेशस्य नगरीयविकासमन्त्री तथा सतनाजनपदस्य प्रभारीमन्त्री कैलाश विजयवर्गीयः बुधवासरे सतनाप्रवासकाले जैतवारां गत्वा एककोटि-अष्टत्रिंशल्लक्ष (1.38) रूप्यकाणां व्ययेन निर्मितस्य नगरपरिषद्-कार्यालयस्य नवीनभवनस्य लोकार्पणं कृतवान्।

​अस्मिन् अवसरे मन्त्री विजयवर्गीयः उक्तवान् यत् प्रदेशसर्वकारः शहरीक्षेत्राणां समग्रविकासाय निरन्तरं कार्यं कुर्वन् अस्ति। नवीननगरपरिषद्-भवनेन प्रशासनिककार्येषु पारदर्शिता गतिश्च आगमिष्यति, येन सहैव सामान्यनागरिकाणां समस्यानां समये उत्तमरीत्या च समाधानं भविष्यति।

​अस्मिन् कार्यक्रमे सासंदः गणेश सिंहः, विधायकः सुरेन्द्र सिंह गहरवारः, नगरपरिषद्-अध्यक्षा रेणु देवी डोहर, उपाध्यक्षः बृजेश पयासी, जिलाध्यक्षः भगवती प्रसाद पाण्डेय, नगरनिगमस्य पूर्ववक्ता अनिल जायसवालः, शंकर दयाल त्रिपाठी, प्रबल श्रीवास्तवः, बालेन्द्र गौतमः, राजेश सिंह गहरवारः, जनपद-कलेक्टरः डॉ. सतीश कुमार एस, आरक्षणाधीक्षकः (SP) हंसराज सिंहः, अनुविभागीय-दण्डाधिकारी (SDM) महिपाल सिंह गुर्जरः, मुख्यनगरपालिकाधिकारी (CMO) पंजाब सिंहः इत्येतैः सह प्रशासनिक-अधिकारिणः, जनप्रतिनिधयः, गणमान्यनागरिकाः तथा च विशालायां संख्यायां स्थानीयनागरिकाः उपस्थिताः आसन्।

​मन्त्री विजयवर्गीयः अवदत् यत् प्रदेशसर्वकारः नगरीय-निकायान् सशक्तिकर्तुं नागरिकेभ्यः उत्तमसेवासुविधाः प्रदातुं च निरन्तरं प्रयतते। प्रधानमन्त्री नरेन्द्र मोदी स्थानीय-निकायानां सशक्तिकरणे 'अर्बन बॉडी' इत्यस्योपरि च विशेषध्यानं दत्त्वा एतासां संस्थानां कृते पृथक् रूपेण राशिमपि ददाति। सः उक्तवान् यत् नगरीयविकासविभागेन प्रथमचरणे पञ्चसहस्रकोटिरूप्यकाणां ऋणमपि गृह्यते। अस्य स्वीकृते सति एककोटिरूप्यकाणां राशिः जैतवारा-नगरपञ्चायताय दास्यते।

​तेन उक्तं यत् नगरीयसंस्थाः केवलं स्वबलेन ग्रामस्य नगरस्य वा नालीनां मार्गाणां च स्वच्छतां कर्तुं न शक्नुवन्ति, अपितु अस्मिन् नागरिकाः अपि स्वसहभागितां निर्वहेयुः। सः अवदत् यत् नगरीयसंस्थासु स्वच्छतायाः प्रोत्साहनार्थं स्पर्धात्मिका पुरस्कारयोजना अपि आरब्धा अस्ति।

​प्रभारीमन्त्री उक्तवान् यत् राज्यसर्वकारः अस्मिन् वर्षे 'कृषकवर्ष' रूपेण मानयति, कृषिकर्मणे सिञ्चनजलं अतीव महत्त्वपूर्णं भवति। मुख्यमन्त्री डॉ. मोहन यादवस्य प्राथमिकता अस्ति यत् सिञ्चनयोजनानां जलं अन्तिमसीमायां स्थितान् कृषकान् यावत् प्राप्नुयात्। सः नवनिर्मितस्य नगरपञ्चायद्भवनस्य गुणवत्तायाः प्रशंसां कुर्वन् अवदत् यत् यादृशं भव्यं भवनं नगरपञ्चायते प्राप्तम् अस्ति, तादृश्या एव सुन्दरतया अस्मिन् भवने उपविश्य अधिकारिणः कर्मचारिणश्च जनसामान्यानां समस्यानां त्वरितं समाधानं निश्चितं कुर्वन्तु। प्रभारीमन्त्री भवनस्य सज्जासामग्रीभ्यः २५ लक्षरूप्यकाणां अतिरिक्तराशिं स्वीकृतवान्। सः कार्यक्रमे भजनगायिकाभ्यः बालिकाभ्यः पुरस्काररूपेण ११ सहस्ररूप्यकाणां राशिं प्रदातुं जनपद-कलेक्टरं निर्देशितवान्।

---------------

हिन्दुस्थान समाचार