एनएनएआई राष्ट्रीय-राजमार्गेषु ‘आरोग्य-वनानि’ विकसितानि करिष्यति
नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। राष्ट्रीय-राजमार्ग-प्राधिकरणेन (एनएचएआई) राजमार्गाणां पार्श्वस्थित-रिक्त-भूमिषु विषयाधारेण औषधीय-पादपानां रोपणं करिष्यते। एतस्याः परियोजनायाः ‘आरोग्य-वन’ इति नाम निर्दिष्टम्। अस्य प्रथम-चरणे १७ भूमिखण्डेषु ६२.८ हेक्
राजमार्ग के किनारे पेड़


नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। राष्ट्रीय-राजमार्ग-प्राधिकरणेन (एनएचएआई) राजमार्गाणां पार्श्वस्थित-रिक्त-भूमिषु विषयाधारेण औषधीय-पादपानां रोपणं करिष्यते। एतस्याः परियोजनायाः ‘आरोग्य-वन’ इति नाम निर्दिष्टम्। अस्य प्रथम-चरणे १७ भूमिखण्डेषु ६२.८ हेक्टेयर-क्षेत्रे प्रायः ६७,४६२ औषधीय-पादपाः रोपिताः भविष्यन्ति।

केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्रालयेन उक्तं यत् एतेषु पादप-रोपणेषु निम्बः, आमलकम्, तिन्तिडीका, जम्बूः, निम्बूकम्, उदुम्बरः तथा मौलसरी इत्यादयः ३६ औषधीय-गुणयुक्ताः वृक्षाः समाविष्टाः भविष्यन्ति। एते देशस्य सर्वेषु राज्येषु कृषि-जलवायु-क्षेत्राणाम् अनुसारं रोपिताः भविष्यन्ति। प्राथमिकता तेषां स्थानानां दीयते ये टोल-प्लाजा, मार्ग-पार्श्व-सुविधाः, इंटरचेंज-स्थानानि तथा प्रमुख-भागानां समीपे स्थिताः सन्ति, यथा जन-जागरूकता अधिकतमं भवेत्।

एनएचएआई इत्यनेन उक्तं यत् प्राधिकरणस्य योजना अग्रिम-वर्षाकाल-ऋतौ प्रायः १८८ हेक्टेयर-रिक्त-भूमौ वृक्षारोपणस्य अस्ति। अनेन राजमार्गेषु हरित-गलियाराणां निर्माणं भविष्यति, ये पारिस्थितिकीं सुदृढां करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता