Enter your Email Address to subscribe to our newsletters

काठमांडू, 08 अप्रैलमासः (हि.स.)।नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः अद्य काठमांडू-नगरे स्थितानां विभिन्नदेशानां राजदूतानां कूटनीतिकमण्डलानां (मिशन) प्रमुखाणां च सह सामूहिकीं गोष्ठीं संवादं च कृतवान्। प्रधानमन्त्री शाहः सुशासनं, आर्थिकविकासं तथा नेपालिनागरिकाणां जीवनस्तरे सुधारं प्रति सर्वकारस्य दृढप्रतिबद्धतां प्रकटितवान्।
प्रधानमन्त्रि-तथा-मन्त्रिपरिषद्-कार्यालये, सिंहदरबारे आयोजितायां अस्यां गोष्ठ्यां भारत-पाकिस्तान-कोरिया गणराज्य-ब्रिटेन-कतर-स्विट्जरलैण्ड-फ्रान्स-इज़राइल-जापान-बांग्लादेश-जर्मनी-मिस्र-श्रीलंका-सऊदी अरब-चीन-संयुक्त राज्य अमेरिका तथा च संयुक्तराष्ट्रसङ्घस्य दूताः अभियानप्रमुखाः च उपस्थिताः आसन्। राजदूताः अभियानप्रमुखाः च प्रधानमन्त्रिणं शाहं वर्धापितवन्तः, तस्य सफलकार्यकालस्य कामनां च कृतवन्तः। ते नेपालिजनतानां हिताय परिणामदायिषु सर्वकारीयकार्येषु सहयोगस्य समर्थनस्य च आश्वासनं दत्तवन्तः।
प्रधानमन्त्री शाहः नेपालस्य सन्तुलितां व्यवहारिकीं च विदेशनीतिं पुनरुक्तवान्, प्रतिवेशिभिः, मित्रदेशैः, विकासभागिदारैः च सह विश्वास-पारस्परिकसम्मान-साझासमृद्धिषु आधारितान् सम्बन्धान् अधिकं सुदृढं कर्तुं आवश्यकतायां बलं दत्तवान्। सः अवदत् यत् शान्तिः सर्वेषां साझा प्राथमिकता भवेत् तथा च विदेशेषु कार्यरतानां नेपालिश्रमिकाणां प्रवासी-नेपालिसमुदायस्य च सुरक्षा हितं च सर्वकारस्य उच्चप्राथमिकतासु वर्तते।
अस्मिन् अवसरे विदेशमन्त्री शिशिर खनालः, प्रधानमन्त्रिणः राजनैतिकपरामर्शदाता असीम शाहः, मुख्यसचिवः सुमनराज अर्यालः, विदेशसचिवः अमृत राई तथा अन्ये सर्वकारीयाधिकारिणः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार