Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्र-मोदिना बुधवासरे मन्त्रिमण्डलस्य निर्णयाः देशस्य कृषकाणां, स्वच्छ-ऊर्जा-क्षेत्रस्य आधारभूत-संरचना-विकासस्य च कृते महत्त्वपूर्णाः इति उक्ताः। तेन सामाजिक-माध्यमेषु लेखं प्रकाश्य एतेषां निर्णयानां विषये सूचना प्रदत्ता।
प्रधानमन्त्री उक्तवान् यत् वैश्विक-समस्यानां मध्येऽपि कृषक-हितं सर्वकारस्य सर्वोच्च-प्राथमिकता अस्ति। अस्यां दिशि वर्षस्य २०२६ वर्षा-ऋतवे न्यूट्रिएण्ट-बेस्ड-सब्सिडी (एनबीएस) वृद्धये अनुमतिः दत्ता, येन कृषकेभ्यः सुलभ-मूल्येषु उर्वरकाणि उपलब्धानि भविष्यन्ति।
स्वच्छ-ऊर्जा-क्षेत्रे अन्यस्य महत्त्वपूर्णस्य पदस्य उल्लेखं कृत्वा तेन उक्तं यत् अरुणाचल-प्रदेशे कमला-हाइड्रो-इलेक्ट्रिक-प्रोजेक्ट-इत्यस्य अनुमतिः दत्ता। अस्मात् देशस्य स्वच्छ-ऊर्जा-परिसंस्थायाः सुदृढता भविष्यति तथा राज्ये विद्युत्-आधारभूत-संरचना-सामुदायिक-विकासानां च प्रोत्साहनं भविष्यति।
अनेन सह कालई-द्वितीय-हाइड्रो-इलेक्ट्रिक-प्रोजेक्ट-इत्यस्यापि स्वीकृतिः दत्ता, यः पूर्वोत्तर-क्षेत्रे विद्युत्-आपूर्तिं सुदृढीकरिष्यति, स्थायी-ऊर्जा-उत्पादनं वर्धयिष्यति तथा स्थानीय-स्तरे रोजगार-विकास-अवसरान् सर्जति।
प्रधानमन्त्री जयपुर-मेट्रो-द्वितीय-चरण-परियोजनामपि नगरस्य कृते महत्त्वपूर्णं आधारभूत-संरचना-उन्नयनम् इति उक्तवान्। तेन उक्तं यत् अस्मात् संयोजकता विस्तरिष्यते, यातायात-सम्मर्दः न्यूनीभविष्यति, जनानां जीवनं च अधिकं सुगमं भविष्यति।
प्रधानमन्त्रिणः अनुसारं एते सर्वे निर्णयाः देशस्य समग्र-विकासाय, स्थायी-ऊर्जायाः प्रोत्साहनाय, उत्तम-जीवन-स्तरस्य सुनिश्चितये च महत्त्वपूर्णानि पदानि सन्ति।उल्लेखनीयम् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिना अध्यक्षतायां अद्य केन्द्रीय-मन्त्रिमण्डलेन १.७४ लक्ष-कोटि-रूप्यकाधिक-व्ययेन सह अनेकाः महत्त्वपूर्णाः परियोजनाः अनुमोदिताः। एषु वर्षा-२०२६ (अप्रैल-सितम्बरमासः) कृते पोषक-तत्त्व-आधारित-सब्सिडी (एनबीएस) दराः, जयपुर-मेट्रो-द्वितीय-चरण-परियोजना, एचपीसीएल-राजस्थान-रिफाइनरी-कृते संशोधित-व्ययाः च समाविष्टाः।
हिन्दुस्थान समाचार / अंशु गुप्ता