प्रधानमन्त्री नरेन्द्र-मोदी प्रधानमन्त्री-मुद्रा-योजनायाः एकादशी-वर्षग्रन्थेः अवसरे सफलतायाः प्रशंसां कृतवान्
नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी प्रधानमन्त्री-मुद्रा-योजनायाः एकादशी-वर्षग्रन्थ्यवसरे अस्याः सफलतायाः प्रशंसां कृत्वा उक्तवान् यत् एषा योजना देशस्य यूनां कृते स्वरोजगारस्य सुदृढं माध्यमं भूत्वा उद्भूता अस्ति। एतां सूचना
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी प्रधानमन्त्री-मुद्रा-योजनायाः एकादशी-वर्षग्रन्थ्यवसरे अस्याः सफलतायाः प्रशंसां कृत्वा उक्तवान् यत् एषा योजना देशस्य यूनां कृते स्वरोजगारस्य सुदृढं माध्यमं भूत्वा उद्भूता अस्ति। एतां सूचनां प्रधानमन्त्री-कार्यालयेन प्रदत्ता।

प्रधानमन्त्री उक्तवान् यत् एकादश-वर्षपूर्वं आरब्धा एषा योजना एतत् सिद्धं कृतवती यत् यदि जनेभ्यः सम्यक् अवसरः समर्थनं च प्रदीयते तर्हि ते न केवलम् आत्मनिर्भराः भवितुं शक्नुवन्ति, अपितु राष्ट्र-निर्माणे अपि महत्त्वपूर्णं योगदानं दातुं समर्थाः भवन्ति। प्रधानमन्त्री-मोदी ‘एक्स’-माध्यमे स्वसन्देशेऽपि अलिखत् यत् एषा योजना यूनां सशक्तीकरणे अत्यन्तं प्रभाविनी जाता अस्ति तथा अग्रिम-समयेऽपि एवमेव देशस्य प्रगतिं वेगं दास्यति।

अस्मिन् अवसरे तेन एकं संस्कृत-सुभाषितम् अपि लिखितम्, यस्मिन् बुद्धिमतः पुरुषस्य गुणाः वर्णिताः—

आत्मज्ञानं समारंभस्थितिक्षा धर्मनित्यता।यमर्था नापकर्षन्ति स वै पण्डित उच्यते॥

श्लोकस्य अर्थं व्याख्याय प्रधानमन्त्री उक्तवान् यत् यः पुरुषः स्व-क्षमताः अवगच्छति, आत्मनिर्भरः भवति, धैर्यं धारयति, धर्मं पालयति, लोभेन च न विचलति, स एव यथार्थतः बुद्धिमान् उच्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता