Enter your Email Address to subscribe to our newsletters

जयपुरम्, 08 अप्रैलमासः (हि.स.)।
भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अप्रैलमासस्य एकविंशतितमे दिने बालोतरा-नगरस्य पचपद्रास्थाने स्थितस्य शोधनालयस्य लोकार्पणं करिष्यति। राजस्थानराज्यस्य मुख्यमंत्री भजनलाल शर्मणो ‘एक्स’ माध्यमेन एतां सूचनां दत्त्वा लिखितवान् यत् एतत् अस्माकं गौरवस्य विषयः अस्ति यत् प्रधानमन्त्री मोदी आगामि २१ अप्रैल दिने पचपद्राशोधनालयस्य लोकार्पणार्थं राजस्थानम् आगच्छति।
शर्मा लिखति यत् एषः शोधनालयः मारवाड़प्रदेशस्य सह सम्पूर्णराजस्थानस्य आर्थिकपरिवर्तनस्य तथा युवानां कृते नूतनरोजगारसंधीनां उद्घाटनस्य ‘भाग्यरेखा’ इव सिद्धः भविष्यति। राजस्थानस्य समस्तजनतायाः पक्षतः प्रधानमन्त्रिणो हार्दिकं स्वागतं अभिनन्दनं च क्रियते।
---------------
हिन्दुस्थान समाचार