Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, ०८ अप्रैलमासः (हि.स.)। मुख्यमन्त्री पुष्कर-सिंह-धामी बुधवासरे टिहरी-गढ़वाल-स्थिते वाटर-स्पोर्ट्स-एण्ड्-एडवेंचर-इन्स्टिट्यूट्-स्थले आयोजितायाः २५तमस्य अखिल-भारतीय-आरक्षक-जल-क्रीडा-समूह-चैम्पियनशिप-इत्यस्य आभासीरीत्या शुभारम्भं कृतवान्।
अस्मिन् अवसरे मुख्यमन्त्री धामी देशस्य विविध-राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यश्च आगत-आरक्षक-दल-क्रीडकान् अधिकारिणः क्रीडा-प्रेमिणश्च देवभूमौ उत्तराखण्डे स्वागतम् अभिनन्दनं च कृतवान्। सः उक्तवान् यत् एषः उत्तराखण्डस्य कृते गौरवस्य विषयः अस्ति यत् राज्यं प्रथमवारं अस्य महत्त्वपूर्ण-राष्ट्रीय-आयोजनस्य आतिथ्यं प्राप्नोति। सः अखिल-भारतीय-आरक्षक-क्रीडा-नियन्त्रण-मण्डलस्य आभारं व्यक्तवान्।सः उक्तवान् यत् एतादृश-आयोजनानि क्रीडकानां प्रतिभा-प्रदर्शनाय मंचं प्रददति, राज्यस्य साहसिक-क्रीडासु पर्यटन-क्षेत्रे च नूतनं परिचयं ददति। अस्यां स्पर्धायां देशस्य १९ दलानां ४४० अधिकाः महिला-पुरुष-क्रीडकाः कैनोइङ्ग्, रोइङ्ग्, कयाकिङ्ग् इत्यादिषु स्पर्धासु भागं गृह्णन्ति।
मुख्यमन्त्री उक्तवान् यत् आरक्षक-अर्द्धसैनिक-दलानां सैनिकाः राष्ट्रस्य सुरक्षा-व्यवस्थां जनविश्वासं च धारयन्ति, अतः तेषां शारीरिक-मानसिक-स्वास्थ्यम् अत्यावश्यकम्। क्रीडाः अनुशासनं दल-भावनां कठिन-परिस्थितिषु कार्य-क्षमतां च वर्धयन्ति। जल-क्रीडाः आपदा-प्रबन्धने, बाढ़-सहायतायां, नदी-उद्धार-कार्येषु तटीय-सुरक्षायां च अत्यन्तं उपयोगिन्यः भवन्ति इति सः अवदत्।
प्रधानमन्त्री नरेन्द्र-मोदी-नेतृत्वे ‘खेलो-इण्डिया’ ‘फिट-इण्डिया’ इत्यादीनि अभियानानि देशे क्रीडा-संस्कृतिं सुदृढं कृतवन्तः इति अपि सः उक्तवान्। राज्य-सर्वकारः अपि क्रीडानां प्रोत्साहनाय क्रीडकानां कृते उत्तम-सुविधानां प्रदाने निरन्तरं प्रयतते इति अवदत्।
सः उक्तवान् यत् उत्तराखण्डेन सम्प्रति ३८तम राष्ट्रीय-क्रीडानां सफल-आयोजनं कृत्वा स्व-क्षमता प्रदर्शिता, राज्यं देवभूमेः सह क्रीडाभूमिरूपेण अपि उदेति। आधुनिक-क्रीडा-अवसंरचनाया विकासः तीव्रतया भवति, भविष्ये अन्ताराष्ट्रिय-स्तरीय-प्रतियोगितानां आयोजनाय अपि प्रयासाः क्रियन्ते।
अस्मिन् अवसरे विधायकः किशोर-उपाध्यायः, टिहरी-जनपद-पञ्चायत-अध्यक्षा इशिता-सजवान्, नगरपालिका-अध्यक्षः मोहन-सिंह-रावतः, विशेष-प्रधान-सचिवः अमित-सिन्हा, एडीजी-आईटीबीपी संजय-गुंज्यालः, आईजी-नॉर्दर्न-फ्रण्टियर-आईटीबीपी मनु-महाराजः, आईजी-सीआरपीएफ दिनेश-उनियालः, आईजी-आईटीबीपी-अकादमी गिरीश-चन्द्र-उपाध्यायः, जनपदाधिकारी नीतिका-खण्डेलवालः तथा एसएसपी श्वेता-चौबे इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता