Enter your Email Address to subscribe to our newsletters


नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-मुद्रा-योजना (पीएमएमवाई) बुधवासरे लघु-सूक्ष्म-उद्यमिनः सशक्तीकरणे एकादश-वर्षाणि पूर्णानि अकरोत्। अस्याः योजनायाः अन्तर्गतं ५७.७९ कोटि-ऋणानां माध्यमेन ४०.०७ लक्ष-कोटि-रूप्यकात् अधिकं धन-वितरणं कृतम्, येन लघु-सूक्ष्म-उद्यमानां कृते ऋण-व्यवस्था सुदृढा अभवत्। एषा योजना प्रधानमन्त्री नरेन्द्र-मोदी इत्यनेन ०८ अप्रैल २०१५-दिने प्रारब्धा आसीत्।
अस्याः योजनायाः उद्देश्यं वित्तीय-प्रवेशे वर्तमान-अन्तरं न्यूनीकर्तुं अस्ति। अस्याः अन्तर्गतं अ-कॉर्पोरेट-अ-कृषि-आय-सृजन-क्रियासु संलग्नानां लघु-व्यवसायिनां कृते २० लक्ष-रूप्यक-पर्यन्तं सरल-सुलभ-अनाश्रित (बिना-गारंटी) ऋणानि प्रदीयन्ते। वित्तमन्त्री निर्मला-सीतारमण उक्तवती यत् गत-दशके भारते एतादृशं परिवर्तनं दृष्टम्, यत्र कोटिशः सामान्य-जनाः नूतन-आत्मविश्वासेन उद्यमशीलता-क्षेत्रे प्रविष्टाः। तया उक्तं यत् एकादश-वर्षेषु एषा योजना लघु-मध्यम-उद्यमानां (एमएसएमई) व्यक्तिगत-उद्यमिनां च कृते ऋण-परिदृश्यं परिवर्तयितुं महत्त्वपूर्णा अभवत्।
वित्तमन्त्रिणा उक्तं यत् अस्याः योजनायाः माध्यमेन ५७.७९ कोटि-ऋणानि स्वीकृतानि, येषां समग्र-राशिः ४०.०७ लक्ष-कोटि-रूप्यकाणि अस्ति। तेषु द्वितीयांशाधिकानि ऋणानि महिला-उद्यमिन्यः प्रति प्रदत्तानि। अपि च प्रायः पञ्चमांशः प्रथमवारं उद्यमं आरब्धवतां उद्यमिनां कृते दत्तः। सांख्यिक-दृष्ट्या नव-उद्यमिनां कृते १२ लक्ष-कोटि-रूप्यक-राश्या सह १२.१५ कोटि-ऋणानि प्रदत्तानि। तया अपि उक्तं यत् एषा योजना उद्यमिनः सशक्तीकर्तुं निरन्तरं प्रवर्तिष्यते, येन ते २०४७-पर्यन्तं विकसित-भारत-निर्माणे सक्रिय-भागिनः भविष्यन्ति।
अस्मिन् अवसरे केन्द्रीय-वित्त-राज्यमन्त्री पङ्कज-चौधरी उक्तवान् यत् प्रधानमन्त्री-मुद्रा-योजना सूक्ष्म-उद्यमशीलतां प्रोत्साहयितुं प्रमुखासु योजनासु एका अस्ति। एषा योजना लघु-उद्यमिभ्यः धनागारे, गैर-सर्वकारी-वित्त-संस्थाभिः (एनबीएफसी) तथा सूक्ष्म-वित्त-संस्थाभिः (एमएफआई) सह ऋण-प्राप्तये मंचं प्रददाति, येन ऋण-समावेशनं वर्धते। तेन उक्तं यत् एषा योजना विशेषतया वञ्चित-वर्गेषु—अनुसूचित-जाति:, अनुसूचित-जनजाति:, अन्य-पृष्ठ-वर्गः (ऋण-लाभार्थिनां ५१ प्रतिशतं) तथा महिलाः (६७ प्रतिशतं)—स्वरोजगार-अवसराणां सृजने महत्त्वपूर्णा अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता