Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ अप्रैलमासः (हि.स.)। सिक्किम-राज्यस्य मुख्यमन्त्री प्रेम-सिंह-तमाङ्गः बुधवासरे अत्र प्रधानमन्त्रिणा नरेन्द्र-मोदिना सह मिलित्वा राज्यस्य विकास-संबद्ध-विविध-विषयेषु चर्चां कृतवान्।
प्रधानमन्त्री-कार्यालयस्य अनुसारं उभयोः नेत्रोः मध्ये सौहार्दपूर्णा सार्थका च वार्ता अभवत्। मिलनान्तरं मुख्यमन्त्री तमाङ्गः अपि ‘एक्स’ इत्यत्र अस्य साक्षात्कारस्य विषये सूचनां दत्त्वा तं सम्मानजनकम् उक्तवान्।
तमाङ्गेन सभायां सिक्किम-राज्यस्य प्रमुख-विकास-प्राथमिकताः उद्भवन्त्यः आवश्यकताः च प्रधानमन्त्रिणं अवगताः कृताः। तेन आधारभूत-संरचना-विकासः, सतत-विकासः तथा राज्यस्य जनानां समग्र-कल्याणाय केन्द्रात् सहयोगस्य वृद्धिः इत्येतस्मिन् विषये चर्चा कृता।
मुख्यमन्त्रिणा जून २०२६ मासतः पुनरारभ्यमाणस्य नाथुला-दर्रा (सिल्क-रूट्) व्यापार-मार्गस्य पुनरुद्घाटन-निर्णयाय प्रधानमन्त्रिणः प्रति आभारः व्यक्तः। तेन उक्तं यत् अस्मात् निर्णयात् स्थानीय-समुदायानां व्यापारिक-क्रियाकलापानां च महान् लाभः भविष्यति।तमाङ्गेन सिक्किम-राज्य-स्थापना-स्वर्ण-जयंती-समारोहस्य समापन-कार्यक्रमे सहभागी-भवितुं प्रधानमन्त्रिणं आमन्त्रितम्, यत् प्रधानमन्त्रिणा स्वीकृतम्। मुख्यमन्त्रिणा राज्यस्य विकासाय समृद्धये च केन्द्रेण निरन्तरं प्रदत्तस्य मार्गदर्शनस्य प्रोत्साहनस्य समर्थनस्य च कृतेऽपि आभारः व्यक्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता