पुडुचेरी-प्रदेशे श्वः मतदानं भविष्यति, सर्वाः व्यवस्थाः पूर्णाः सुरक्षा-व्यवस्था च सुदृढा भविष्यति
पुडुचेरी, ०८ अप्रैलमासः (हि.स.)। केन्द्रशासित-राज्ये पुडुचेरी-प्रदेशे विधानसभानिर्वाचनार्थं श्वः गुरुवासरे प्रातः ७-वादनात् सायं ६-वादनपर्यन्तं मतदानं भविष्यति। अस्य कृते शासन-प्रशासन-स्तरे सर्वाः व्यवस्थाः पूर्णाः कृताः। समग्रे प्रदेशे ३० निर्वाचन
पुदुचेरी


पुडुचेरी, ०८ अप्रैलमासः (हि.स.)। केन्द्रशासित-राज्ये पुडुचेरी-प्रदेशे विधानसभानिर्वाचनार्थं श्वः गुरुवासरे प्रातः ७-वादनात् सायं ६-वादनपर्यन्तं मतदानं भविष्यति। अस्य कृते शासन-प्रशासन-स्तरे सर्वाः व्यवस्थाः पूर्णाः कृताः। समग्रे प्रदेशे ३० निर्वाचन-क्षेत्रेषु आहत्य १,०९९ मतदान-केन्द्राणि स्थापितानि सन्ति।

बुधवासरे मतदान-कर्मचारिणः इवीएम-यन्त्रैः अन्य-सामग्रीभिः सह जीपीएस-युक्त-वाहनैः मतदान-केन्द्रेषु प्रेषिताः। तैः सह आरक्षक-सुरक्षा शस्त्रसज्जित-सैनिकाश्च प्रेषिताः। प्रातः अभ्यर्थिनां तेषां प्रतिनिधिनां च उपस्थितौ मतदान-केन्द्रेषु सुरक्षित-कक्षाणां मोहराः उद्घाटिताः, इवीएम-यन्त्राणि नियन्त्रण-एककानि च पृथक् कृतानि। सर्वेषु मतदान-केन्द्रेषु अर्द्धसैनिक-बलं, आरक्षक-दलम् तथा निर्वाचन-अधिकारिणः नियुक्ताः सन्ति। इवीएम-यन्त्राणि सम्बन्धित-मतदान-अधिकारिभ्यः समर्पितानि। सर्वेषु मतदान-केन्द्रेषु वेब-कैमरा-माध्यमेन नियन्त्रण-कक्षात् निरीक्षणं क्रियते।

निर्धारित-कार्यक्रमानुसारं श्वः प्रातः ७-वादने मतदानं आरभ्य सायं ६-वादने समाप्तं भविष्यति। ततः अनन्तरं यन्त्राणि दृढ-सुरक्षायां मतगणना-केन्द्रेषु नीयन्ते, यत्र सुरक्षित-कक्षेषु मोहरितानि भविष्यन्ति। एतेषां सुरक्षित-कक्षाणां २४-होरान्तरं सीसीटीवी-कैमरा-माध्यमेन निरीक्षणं भविष्यति। तेषां सुरक्षार्थं अर्द्धसैनिक-बलैः पुडुचेरी-आरक्षक-दलेन च त्रिस्तरीया सुरक्षा-व्यवस्था कृता अस्ति। अग्रिम-मासस्य ४-दिनाङ्के विधानसभानिर्वाचनस्य मतगणना भविष्यति।

निर्वाचनार्थं पुडुचेरी-क्षेत्रस्य इवीएम-यन्त्राणि टैगोर-आर्ट्स-कॉलेज, मोतीलाल-नेहरू-पॉलिटेक्निक-कॉलेज तथा महिला-इञ्जीनियरिङ्-कॉलेज-परिसरेषु स्थितेषु मतगणना-केन्द्रेषु सुरक्षित-कक्षेषु स्थापितानि आसन्। पुडुचेरी-केन्द्रशासित-प्रदेशस्य ३० निर्वाचन-क्षेत्राणां कृते १,०९९ इवीएम-यन्त्राणि, १,०९९ नियन्त्रण-एककानि, १,०९९ वीवीपैट-यन्त्राणि च उपयुज्यन्ते। आपत्कालीन-स्थित्यर्थं ३६४ इवीएम-यन्त्राणि, ३६४ नियन्त्रण-एककानि, ४५९ वीवीपैट-यन्त्राणि च आरक्षितानि सन्ति। अस्मिन् निर्वाचन-प्रक्रियायां ३४ राष्ट्रीय-दलानां अभ्यर्थिनः, ६३ राज्य-दलानां अभ्यर्थिनः, ८० पञ्जीकृत-अमान्य-दलानां अभ्यर्थिनः तथा ११७ निर्दलीय-अभ्यर्थिनः इत्येतैः सह आहत्य २९४ अभ्यर्थिनः प्रतिस्पर्धायां सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता