'श्री बाबा नीब करौरी महाराज' इति चलच्चित्रस्य भक्ति-श्रद्धापूर्णं लघुप्रेक्षणं लोकार्पितम्
सुबोध-भावे-महोदयस्य बहुप्रतीक्षितस्य ''श्री बाबा नीब करौरी महाराज'' इति चलच्चित्रस्य आधिकारिकं ''टीजर'' इति विमोचितम्। ''अनीशा फिल्म्स इण्टरनेशनल'' इति संस्थायाः तत्त्वावधाने निर्मितस्य अस्य चलच्चित्रस्य निर्देशनं शरद सिंह ठाकुरेण कृतम्।
श्री बाबा नीब करौरी महाराज


सुबोध-भावे-महोदयस्य बहुप्रतीक्षितस्य 'श्री बाबा नीब करौरी महाराज' इति चलच्चित्रस्य आधिकारिकं 'टीजर' इति विमोचितम्। 'अनीशा फिल्म्स इण्टरनेशनल' इति संस्थायाः तत्त्वावधाने निर्मितस्य अस्य चलच्चित्रस्य निर्देशनं शरद सिंह ठाकुरेण कृतम्। पौराणिक-आध्यात्मिकपृष्ठभूमौ आधारितं इदं चलच्चित्रं दर्शकानां मध्ये महोत्साहं जनयति।

​'टीजर' मध्ये सुबोध भावे 'नीम करोली बाबा' इत्यस्य भूमिकायां प्रदर्शितः अस्ति। अस्मिन् तस्य आध्यात्मिकजीवनस्य, चमत्काराणां, भक्तैः सह तस्य सम्बन्धाणां च झलकं दृश्यते। इदं चलच्चित्रं बाबा-महोदयस्य जन्मतः आरभ्य १९७३ तमे वर्षे तस्य 'महासमाधि' पर्यन्तं सम्पूर्णाम् यात्रां बृहत्पटले (सिल्वर स्क्रीन) उपस्थापयिष्यति।

​चलच्चित्रे हितेन तेजवानी, समीक्षा भटनागर, मोहित गुप्ता, हेमन्त पाण्डेय च प्रमुखासु भूमिकासु द्रक्ष्यन्ते। 'श्री बाबा नीब करौरी महाराज' इति चलच्चित्रं २४ अप्रैल दिनाङ्के चित्रपटगृहेषु प्रदर्शितं भविष्यति।

---------------

हिन्दुस्थान समाचार