Enter your Email Address to subscribe to our newsletters

-आत्मनिर्भर भारतस्य’ संकल्पाय दृढः आधारः प्रदास्यते कॉरिडोरद्वारा
लखनऊ, 08 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो बुधवासरे उत्तरप्रदेश डिफेन्स् इंडस्ट्रियल् कॉरिडोरस्य चित्रकूट नोड् मध्ये पञ्चसप्ततिः हेक्टेयर् भूमेः आवंटनपत्रं मनोज जैनाय भारत इलेक्ट्रॉनिक्स लिमिटेड संस्थायाः अध्यक्षाय प्रबन्धनिदेशकाय च समर्पितवान्। एषः प्रयत्नः चित्रकूट डिफेन्स् नोडस्य सुव्यवस्थितस्य चरणबद्धविकासस्य दिशि महत्त्वपूर्णं संस्थागतपदम् इति मन्यते, यत् प्रदेशे रक्षा विनिर्माण अधोसंरचनां सुदृढां कृत्वा बुन्देलखण्डक्षेत्रे औद्योगिकाधारस्य विस्ताराय नूतनां गतिं दास्यति।
अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् एषा पहल उत्तरप्रदेशं रक्षा विनिर्माणक्षेत्रे सशक्तं विश्वसनीयं च परिचयं दास्यति। सा बुन्देलखण्डक्षेत्रस्य समग्र आर्थिक औद्योगिकविकासाय अपि नूतनां गतिं दास्यति। मध्यभारतस्य रणनीतिकरूपेण स्थितः चित्रकूट नोड् उत्तमया लॉजिस्टिक् संयोजकत्वेन भौगोलिकसौकर्येण च रक्षा उत्पादनस्य उदितं केन्द्रं भवति, यत् आगामिषु कालेषु निवेश रोजगारसृजन उच्चप्रौद्योगिकीआधारित औद्योगिकविकासस्य प्रमुखाधारः भविष्यति।
योगी आदित्यनाथः अवदत् यत् अस्य परियोजनायाः अन्तर्गतं भारत इलेक्ट्रॉनिक्स लिमिटेड द्वारा प्रायः पञ्चशतद्विषष्ट्यधिक पञ्चदशकोटि रूप्यकाणां निवेशः कृत्वा अत्याधुनिक राडार वायु रक्षा प्रणालीनिर्माणाय उन्नता विनिर्माण एककः स्थाप्यते। एषा पहल रक्षा क्षेत्रे उच्चप्रौद्योगिकीआधारित उत्पादनं सुदृढं करिष्यति तथा प्रदेशे औद्योगिकदक्षतायाः तकनीकीक्षमतानां च विस्ताराय नूतनां दिशं प्रदास्यति। अस्य परिणामरूपेण त्रिशताधिक प्रत्यक्षरोजगाराः सृज्यन्ते इति सम्भावना अस्ति, यदा सहायकसंबद्धक्षेत्रेषु अप्रत्यक्षरूपेण बहुलः रोजगारसृजनः भविष्यति।
मुख्यमन्त्री उक्तवान् यत् चित्रकूटे अस्य उच्चप्रौद्योगिकीएककस्य स्थापना स्थानीययुवानां कृते गुणवत्तायुक्तरोजगारस्य नूतनावसरान् जनयिष्यति, येन रोजगारार्थं अन्यप्रदेशेषु पलायनस्य आवश्यकता न्यूनता प्राप्स्यति। एषा परियोजना न केवलं क्षेत्रीय अर्थव्यवस्थां सुदृढां करिष्यति, अपि तु तकनीकीदक्षमानवसंसाधनविकासं अनुसंधानं नवाचारं च संस्थागतरीत्या प्रोत्साहयिष्यति, येन प्रदेशे आधुनिक औद्योगिक पारिस्थितिकी तन्त्रस्य निर्माणं बलं प्राप्स्यति।
सः अवदत् यत् एषा पहल ‘आत्मनिर्भर भारत’ संकल्पस्य सुदृढाधारं दास्यति तथा रक्षा क्षेत्रे स्वदेशी उत्पादनक्षमतां निर्णायकतया वर्धयिष्यति। अस्य माध्यमेन आयातनिर्भरता न्यूना भविष्यति तथा देशे सशक्तं आत्मनिर्भरं एकीकृतं च रक्षा औद्योगिक पारिस्थितिकी तन्त्रं निर्मीयते। सहायक एमएसएमई आधारित उद्योगानां विकासः अपि तीव्रगत्या वर्धिष्यते तथा उन्नत तकनीकीसहयोगः नवाचारः ज्ञानसञ्चारः च नूतनावसरान् जनयिष्यन्ति।
अन्ते मुख्यमन्त्री उक्तवान् यत् चित्रकूट यत् अद्यावधि स्वस्य समृद्धसांस्कृतिक आध्यात्मिकपरम्परया प्रसिद्धम् आसीत्, अधुना रक्षा विनिर्माणक्षेत्रे अपि नूतनां सशक्तां च पहचानं स्थापयितुं अग्रे गच्छति। अत्र प्रस्तावितं एतत् उन्नतऔद्योगिकएककं क्षेत्रीयविकासाय नूतनां गतिं दास्यति तथा प्रदेशस्य संतुलितसमावेशी बहुआयामी विकासस्य संकल्पं साकारयिष्यति, येन परम्परायाः आधुनिकऔद्योगिकप्रगतेः च मध्ये सुदृढः समन्वयः स्थापितः भविष्यति।
हिन्दुस्थान समाचार