प्रत्येकं प्रभावितं कृषकं त्वरित-सहायता प्रदास्यते, क्षतिपूर्तौ विलम्बः न भविष्यति : मुख्यमन्त्री योगी
लखनऊनगरम्, ०८ अप्रैलमासः (हि.स.)। अकाल-वृष्ट्या, ओलावृष्ट्या तथा केषुचित् स्थानेषु अग्निकाण्ड-घटनाभिः रबी-सस्यानां जात-हानौ मुख्यमन्त्री योगी-आदित्यनाथः गभीरां संवेदनां व्यक्तवान्, अधिकारिभ्यः त्वरित-पारदर्शि-संवेदनशील-कार्यवाहीं कर्तुं निर्देशांश्
मुख्यमंत्री योगी


लखनऊनगरम्, ०८ अप्रैलमासः (हि.स.)। अकाल-वृष्ट्या, ओलावृष्ट्या तथा केषुचित् स्थानेषु अग्निकाण्ड-घटनाभिः रबी-सस्यानां जात-हानौ मुख्यमन्त्री योगी-आदित्यनाथः गभीरां संवेदनां व्यक्तवान्, अधिकारिभ्यः त्वरित-पारदर्शि-संवेदनशील-कार्यवाहीं कर्तुं निर्देशांश्च दत्तवान्। बुधवासरे प्रातः आयोजितायां उच्चस्तरीय-समीक्षा-सभायां मुख्यमन्त्री उक्तवान् यत् अस्यां प्रतिकूल-परिस्थितौ अन्नदातुः चिन्तितः भवितुम् स्वाभाविकम् अस्ति, राज्य-सर्वकारः पूर्ण-प्रतिबद्धतया कृषकैः सह तिष्ठति।

मुख्यमन्त्री योगी निर्देशं दत्तवान् यत् प्रत्येकं प्रभावितस्य कृषकस्य हानिः सम्यक्-निष्पक्ष-समयबद्ध-रूपेण मूल्याङ्नं कृत्वा त्वरित-क्षतिपूर्तिः सुनिश्चितीक्रियेत। सः उक्तवान् यत् जनपद-स्तरे राजस्व-कृषि-सम्बद्ध-विभागानां मध्ये प्रभावी-समन्वयः संस्थाप्य शीघ्रं सर्वेक्षणं कृत्वा प्रतिवेदनं शासनाय प्रेष्यताम्, येन सहायता-वितरणे कश्चित् विलम्बः न भवेत्।

तेन बीमा-निर्माणिभिः सह सक्रिय-समन्वयः संस्थाप्य सस्य-बीमानां शीघ्र-निस्तारणाय निर्देशाः दत्ताः। सः उक्तवान् यत् अधिकारिणः स्वयम् कृषकैः सह सम्पर्कं कृत्वा तेभ्यः बीमा-योजनानां लाभं प्रापयन्तु, येन अधिकतम-सहायता उपलब्धा भवेत्।

राजस्व-विभागाय निर्देशं दत्त्वा मुख्यमन्त्री उक्तवान् यत् राज्य-आपदा-राहत-कोषात् प्रत्येकं जनपदाय पर्याप्त-धनराशिः त्वरितं प्रदीयताम्। जिलाधिकारिणः सुनिश्चितं कुर्वन्तु यत् प्रभावित-कृषकेभ्यः त्वरित-पारदर्शीरीत्या सहायता प्रदीयते। यत्र आवश्यकता अस्ति तत्र सहायता-शिविराणि स्थापितानि भवन्तु, मण्डी-समितिनां माध्यमेन च कृषकेभ्यः सर्वथा सहयोगः प्रदीयताम्।

अग्निकाण्ड-घटनासु विशेष-संवेदनशीलतां वहन् मुख्यमन्त्री निर्देशं दत्तवान् यत् जनहानि-पशुहानि-स्थितौ २४-होराभ्यन्तरे सहायता-राशिः प्रदीयताम्। सहैव पात्र-लाभार्थिनः कृषक-दुर्घटना-बीमा-योजनायाः अन्तर्गतं शीघ्रं लाभान्विताः क्रियन्ताम्। येषां परिवाराणां गृहाणि क्षतिग्रस्तानि वा नष्टानि, तेषां कृते प्राथमिकतया मुख्यमन्त्री-आवास-योजनायाः अन्तर्गतं आवासः प्रदीयताम् इति अपि निर्देशः दत्तः। मुख्यमन्त्री अधिकारिणः अवदत् यत् सहायता-पुनर्वास-कार्येषु कस्यापि प्रकारस्य शिथिलता अक्षम्या भविष्यति, तत्र सम्बन्धित-अधिकारिणाम् उत्तरदायित्वं निश्चितं क्रियते। सः उक्तवान् यत् प्रदेश-सर्वकारः अस्यां आपदा-घटिकायां प्रत्येकं कृषकस्य कृषक-परिवारस्य सह पूर्ण-संवेदनशीलतया तत्परतया प्रतिबद्धतया च स्थितः अस्ति।

उल्लेखनीयम् अस्ति यत् उत्तर-प्रदेशस्य अधिकांश-भागेषु मङ्गलवासरात् आरभ्य ऋतुः प्रतिकूलः अस्ति। अनेक-जनपदेषु तीव्र-आन्ध्र्या सह वर्षा जाता। उत्तर-प्रदेशस्य राजधान्यां लखनऊ-नगरे मङ्गलवासरे सायं बिन्दु-वृष्टिः आरब्धा आसीत्। रात्रौ अपि प्रातःकाले अपि मन्द-वृष्टिः अभवत्, आकाशे मेघाः आवृताः सन्ति। मौसम-विभागेन सञ्चेतना दत्ता यत् अग्रिम-४८-होरासु उत्तर-प्रदेशस्य अनेक-प्रदेशेषु तीव्र-वृष्टिः सम्भाव्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता