Enter your Email Address to subscribe to our newsletters




तेलङ्गाणाराज्यस्य देवस्व-मन्त्री कोण्डा सुरेखायाः पौत्रः कोण्डा श्रेयांश मुरली कृष्ण पटेलः द्विवर्षैकादशमासानां वयसि शतरंजक्रीडाजगति इतिहासम् रचयन् अल्पतमे वयसि 'FIDE-Rated' अङ्कं सम्प्राप्य विश्वकीर्तिमानं स्थापितवान्। एषा उपलब्धिः 'वर्ल्ड बुक ऑफ रिकॉर्ड्स' इत्यनया संस्थया सत्यापिता अस्ति। श्रेयांशः आगमिष्यत्सु मासेषु ब्रिटीश-संसदि 'वर्ल्ड बुक ऑफ रिकॉर्ड्स' पक्षतः सम्मानितः भविष्यति।
हैदराबादस्य जुबली-हिल्स-स्थिते 'MLA एवं MP कॉलोनी कल्चरल सेण्टर' मध्ये 'रॉय चेस एकेडमी' इत्यनया कार्यक्रमः आयोजितः आसीत्। अस्मिन् श्रेयांशः पिहिते प्रकोष्ठे १५ निमेषेषु ५२ क्षणात्मकसमये (15:52) ९३ 'बैक-रैंक चेकमेट' इति समस्याः समाहितवान् तथा च १ घण्टायां ९ निमेषेषु ९ क्षणात्मकसमये २१ शतरंजपटलानि सज्जीकृत्य अनुपमं कार्यं प्रदर्शितवान्। क्रीडाकाले मन्त्री कोण्डा सुरेखा अपि काचस्य बहिः स्थित्वा क्रीडन्तं पौत्रं पश्यन्ती आसीत्। अनया उपलब्ध्या मन्त्री कोण्डा सुरेखा भावुक्ता अभवत्, सा स्वपौत्रं आलिङ्ग्य अतीव स्नेहं कृतवती। सा हर्षं प्रकटयन्ती अवदत् यत् एषः क्षणः तस्याः कृते राजनेतृरूपेण न, अपितु पितामहीरूपेण गर्वस्य विषयः आसीत्। अस्मिन् अवसरे तेलङ्गाणायाः उपमुख्यमन्त्री मल्लू भट्टी विक्रमार्का अपि उपस्थितः आसीत्।
उल्लेखनीयं वर्तते यत् शतरंजजगति अल्पवयसि उपलब्धीः प्राप्तृषु अन्यक्रीडकेषु अनिश सर्वकारस्य नाम अपि सम्मिलितम् अस्ति, येन ३ वर्षस्य वयसि 'FIDE' रेटीङ्गं सम्प्राप्य अल्पतमवयस्कस्य 'रेटेड' क्रीडकस्य कीर्तिमानं रचितम् आसीत्। एतदतिरिच्य अभिमन्यु मिश्रा १२ वर्षचतुर्मासानां वयसि 'ग्रैण्डमास्टर' भूत्वा विश्वकीर्तिमानं स्वनाम्ना कृतवान्। सम्प्रति १८ वर्षीयः भारतीयः ग्रैण्डमास्टरः गुकेश डी इत्येषः सिङ्गापुरनगरे विश्वशतरंजविजेतुः पदवीं प्राप्तवान्।
हिन्दुस्थान समाचार