अम्बेडकर-जयन्त्याः उपलक्ष्ये भाजपया कार्यक्रमाणां शृङ्खला सज्जी कृता
चण्डीगढम्, ०८ अप्रैलमासः (हि.स.)। हरियाणा-प्रदेशे भाजपया संविधान-निर्मातुः बाबा साहेब-डाॅ.भीमराव-आम्बेडकरस्य १३५तमी जयन्तीं समानता-सामाजिक-न्याय-दिवसरूपेण आचरितुं निर्णयः कृतः। अस्य अवसरस्य निमित्तं बहूनां कार्यक्रमाणां शृङ्खला सज्जी कृता अस्ति। ह
अम्बेडकर-जयन्त्याः उपलक्ष्ये भाजपया कार्यक्रमाणां शृङ्खला सज्जी कृता


चण्डीगढम्, ०८ अप्रैलमासः (हि.स.)। हरियाणा-प्रदेशे भाजपया संविधान-निर्मातुः बाबा साहेब-डाॅ.भीमराव-आम्बेडकरस्य १३५तमी जयन्तीं समानता-सामाजिक-न्याय-दिवसरूपेण आचरितुं निर्णयः कृतः। अस्य अवसरस्य निमित्तं बहूनां कार्यक्रमाणां शृङ्खला सज्जी कृता अस्ति।

हरियाणा-प्रदेशस्य सामाजिक-न्याय-अधिकारिता-मन्त्री कृष्णकुमार-बेदी इत्यस्य अनुसारं भाजपया १३ तः २० अप्रैल-पर्यन्तं समग्र-राज्ये बाबा साहेबस्य जयन्त्याः उपलक्ष्ये प्रायः द्वादश महतां कार्यक्रमाणां आयोजनं करिष्यते। एतेषां कार्यक्रमाणां व्यवस्थापनार्थं भाजपया तस्यैव नेतृत्वे पञ्चसदस्यीय-समितेः गठनम् कृतम्।

मुख्यमन्त्री नायबसिंह-सैनी १४ अप्रैलमासे पञ्चकूला-नगरस्थे राज्य-स्तरीय-सभायां जनान् सम्बोधयिष्यति। अस्मिन् दिने दलित-कल्याण-संबद्धानां बहूनां योजनानां घोषणाः अपि सम्भाव्याः सन्ति। १३ अप्रैल-मासस्य सायंकाले समग्र-राज्ये यत्र यत्र बाबा साहेब-आम्बेडकरस्य प्रतिमाः स्थापिताः सन्ति, तेषु सर्वेषु स्थलेषु स्वच्छता-अभियानम् आयोजयिष्यते, तथा दीपोत्सवः अपि आचरिष्यते। १४ अप्रैल-प्रातःकाले प्रतिमासु माल्यार्पणं कृत्वा अनन्तरं मिष्टान्न-वितरणं भविष्यति।

१४ अप्रैल-मासे एव पञ्चकूला-स्थिते इन्द्रधनुष-स्टेडियम् इति स्थले राज्य-स्तरीय-सभा भविष्यति, यस्यां अध्यक्षतां कृष्णकुमार-बेदी करिष्यति, विशिष्ट-अतिथिरूपेण च पंचायत-मन्त्री कृष्णलाल-पंवार उपस्थितः भविष्यति। सर्वे विधायका अपि अस्मिन् कार्यक्रमे सहभागी-भवितुं निर्दिष्टाः सन्ति। राज्य-स्तरीय-समितौ कृष्णकुमार-बेदी सहिताः सत्यप्रकाश-जरावता, अनूप-धानक:, मखनसिंह: तथा राजकुमार-कटारिया अपि सम्मिलिताः सन्ति।

भाजपया १५ तथा १६ अप्रैल-दिवसयोः राज्यस्य सर्वेषु अनुसूचित-जाति-छात्रावासेषु संस्थासु च गत्वा लोकसभायां प्रधानमन्त्री नरेन्द्र-मोदी इत्यनेन प्रदत्तस्य संविधान-विषयक-भाषणस्य प्रचार-प्रसारः कर्तुं योजना अपि निर्मिता।

मन्त्रिणा उक्तं यत् २० अप्रैलमासे सर्वेषु जनपद-मुख्यालयेषु बुद्धिजीविनां सम्मेलनानि आयोजितानि भविष्यन्ति। यासु दलित-बस्तिषु शताधिकाः जनाः निवसन्ति, तासु अपि भाजपया कार्यकर्तारः गत्वा बाबा-साहेबस्य कार्याणां विषये जनान् अवबोधयिष्यन्ति। कृष्णकुमार-बेदी इत्यनेन कार्यकर्तॄन् आह्वानं कृतं यत् ते स्व-स्व-क्षेत्रेषु आयोज्यमानेषु एतेषु कार्यक्रमेषु सक्रियतया सहभागं कुर्यु:।

हिन्दुस्थान समाचार / अंशु गुप्ता