असम-विधानसभा-निर्वाचनम् २०२६ : सायं पञ्चवादनपर्यन्तं अभिलेखीयं ८४.४२ प्रतिशतं मतदानम्
गुवाहाटीनगरम्, ०९ अप्रैलमासः (हि.स.)। असम-राज्यस्य विधानसभानिर्वाचनम् २०२६ निमित्तं राज्यस्य १२६ विधानसभा-क्षेत्रेषु अभिलेखीयं मतदानं अभवत्। निर्वाचन-आयोगेन सायं पञ्चवादनपर्यन्तं प्रकाशितेषु विवरणानाम् अनुसारं ८४.४२ प्रतिशतं मतदानं अभिलिखितम्। तथाप
असम चुनाव 2026: गुवाहाटी के बरसोजाई हाई स्कूल मतदान केन्द्र पर गुरुवार को बरसात के बीच मतदान करने के लिए कतारबद्ध मतदाता


गुवाहाटीनगरम्, ०९ अप्रैलमासः (हि.स.)। असम-राज्यस्य विधानसभानिर्वाचनम् २०२६ निमित्तं राज्यस्य १२६ विधानसभा-क्षेत्रेषु अभिलेखीयं मतदानं अभवत्। निर्वाचन-आयोगेन सायं पञ्चवादनपर्यन्तं प्रकाशितेषु विवरणानाम् अनुसारं ८४.४२ प्रतिशतं मतदानं अभिलिखितम्। तथापि, एतेषु विवरणेषु रात्रेः पर्यन्तं परिवर्तनस्य पूर्णा सम्भावना अस्ति।

पूर्वं २०२१-विधानसभानिर्वाचने ८२.४२ प्रतिशतं मतदानं जातम् आसीत्। एवं अस्मिन् समये पूर्वनिर्वाचनस्य विवरणानि अतिक्रान्तानि सन्ति। अनेन नूतनः अभिलेखः निर्मीयते। गुरुवासरे प्रातः ७ वादने मतदानम् आरब्धम्। प्रातः ९ वादनपर्यन्तं १७.८७ प्रतिशतं, ११ वादनपर्यन्तं ३८.९२ प्रतिशतं, अपराह्णे १ वादनपर्यन्तं ५९.६३ प्रतिशतं तथा सायं ३ वादनपर्यन्तं ७५.९१ प्रतिशतं मतदानम् अभवत्।

ज्ञातव्यम् यत् बरपेटा, बंगाईगांव, दरंग, धुबड़ी, ग्वालपाड़ा, दक्षिण-सालमारा-मानकाचर-जनपदेषु ९० प्रतिशतात् अधिकं मतदानं अभिलिखितम्। सर्वाधिकं दक्षिण-सालमारा-मानकाचर-जनपदे ९४.०८ प्रतिशतं मतदानम् अभवत्।

जनपदवारं मतदान-प्रतिशतम्—

बजाली— ८६.८९बाक्सा— ८२.५१बरपेटा— ९१.९२बिश्वनाथ— ८३.७६बंगाईगांव— ९१.७७कछार— ८२.१९चराईदेव— ८२.९१चिरांग— ८६.०६दरंग— ९०.९१धेमाजी— ७९.०४धुबड़ी— ९०.६३डिब्रूगढ़— ८०.०२डिमा-हसाओ— ७९.९६ग्वालपाड़ा— ९१.३४गोलाघाट— ८०.९६हैलाकांदी— ७८.९०होजाई— ८७.१३जोरहाट— ७९.९३कामरूप (मेट्रो)— ७६.४१कामरूप— ८६.८७कार्बी-आंगलोंग— ७५.४२कोकराझार— ८६.५९लखीमपुर— ८४.४१माजुली— ८३.६७मोरीगांव— ८८.९५नगांव— ८७.१८नलबारी— ८६.८९शिवसागर— ८३.३०शोणितपुर— ८२.२३दक्षिण-सालमारा-मानकाचर— ९४.०८श्रीभूमि— ८३.३५तामुलपुर— ८२.००तिनसुकिया— ७८.८५उदालगुड़ी— ८२.२९पश्चिम-कार्बी-आंगलोंग— ७२.९४

हिन्दुस्थान समाचार / अंशु गुप्ता