बस्तर सांसदस्य पैतृक ग्रामे 21 पवित्र नदीनां जलेन जातः बजरंगबलिनो जलाभिषेकः
जगदलपुरम्, 09 अप्रैलमासः (हि.स.)। बस्तर लोकसभा-सांसदस्य महेश कश्यपस्य पैतृकग्रामे कुम्हरावण्ड-झरनीगुडा स्थिते गृहे आयोजिते ‘श्रीरामभक्तहनुमतः’ प्राणप्रतिष्ठा-महोत्सवे अद्य गुरुवासरे वैदिकविद्वत्सान्निध्ये ‘मूर्त्यधिवासः’ तथा विशिष्टपूजनविधानं सम्प
बस्तर सांसद के पैतृक ग्राम में 21 पवित्र नदियों के जल से हुआ बजरंगबली का जलाभिषेक


जगदलपुरम्, 09 अप्रैलमासः (हि.स.)। बस्तर लोकसभा-सांसदस्य महेश कश्यपस्य पैतृकग्रामे कुम्हरावण्ड-झरनीगुडा स्थिते गृहे आयोजिते ‘श्रीरामभक्तहनुमतः’ प्राणप्रतिष्ठा-महोत्सवे अद्य गुरुवासरे वैदिकविद्वत्सान्निध्ये ‘मूर्त्यधिवासः’ तथा विशिष्टपूजनविधानं सम्पन्नम्।

सांसदः महेश कश्यपः स्वपरिवारसहितः बस्तरप्रदेशस्य जीवनदायिन्याः प्राचीनायाः इन्द्रावती-नद्याः जलं सहितं देशस्य एकविंशतिपवित्रनदीनां जलैः नवस्थापितां बजरंगबली-प्रतिमां महाजलाभिषेकेन अभिषिक्तवान्।

सः अवदत् यत् पवित्रनदीजलैः सह वैदिकमन्त्रुच्चारणेन सम्पन्नः अयं अनुष्ठानः मनसि असीमां शान्तिं जनयति। तेन महाबलीहनुमतः श्रीचरणयोः समस्तानां अंचलवासिनां उत्तमस्वास्थ्यसुखसमृद्धीनां तथा बस्तरप्रदेशस्य निरन्तरप्रगतेः मंगलकामना कृता।

अस्मिन् अवसरे भारतीयजनतापार्टीयाः पदाधिकारीणः कार्यकर्तारः च, तथा क्षेत्रस्य धर्मप्रेमिणः जनाः बहुसंख्यया उपस्थिताः सन्तः पुण्यलाभं प्राप्तवन्तः।

उल्लेखनीयम् अस्ति यत् सांसदमहेश कश्यपस्य प्रभुहनुमतः प्रति एतत् अनन्यसमर्पणं तस्य बाल्यकालादेव आसीत्। सः विश्वहिन्दूपरिषद् तथा बजरंगदलयोः नगरीयस्तरात् प्रान्तीयस्तरपर्यन्तं विविधेषु महत्वपूर्णदायित्वेषु कुशलतया कार्यं कृतवान्।

संगठने सक्रियतायां तेन क्षेत्रस्य अनेकग्रामेषु मन्दिरनिर्माणस्य आधारशिलाः स्थापिताः तथा सनातनसंस्कृतेः संरक्षणे अग्रणी भूमिका निर्वहिता। अधुना स्वपैतृकगृहे भव्यहनुमन्मन्दिरस्य स्थापना तथा प्राणप्रतिष्ठा क्रियते।

अनुष्ठानकाले प्रतिमां विविधैः पवित्रद्रव्यैः अधिवासं कृत्वा जागृता कृता।

---------------

हिन्दुस्थान समाचार