‘सीएम युवा’ प्रयत्नेन आत्मनिर्भराः निर्मीयन्ते युवानो, नूतनेषु क्षेत्रेषु वर्धते सहभागिता
योगी सरकारे इनोवेटिव बिजनेसमध्ये वर्धते युवसु उत्साहः, इनोवेशनद्वारा स्थाप्यन्ते सहस्रं जीविकाः लखनऊ, 09 अप्रैलमासः (हि.स.)।उत्तरप्रदेशे “सीएम युवा योजना” इत्यस्य माध्यमेन युवान् आत्मनिर्भरान् कर्तुं दिशि महान् परिवर्तनं दृश्यते। योगी-सरकारस्य प्र
योगी आदित्यनाथ


योगी सरकारे इनोवेटिव बिजनेसमध्ये वर्धते युवसु उत्साहः, इनोवेशनद्वारा स्थाप्यन्ते सहस्रं जीविकाः

लखनऊ, 09 अप्रैलमासः (हि.स.)।उत्तरप्रदेशे “सीएम युवा योजना” इत्यस्य माध्यमेन युवान् आत्मनिर्भरान् कर्तुं दिशि महान् परिवर्तनं दृश्यते। योगी-सरकारस्य प्रयासैः प्रदेशे अभिनव-विचार-आधारिताः स्टार्टअप-उद्यमाः शीघ्रं विकसिताः सन्ति, येन सहस्रशः युवानः न केवलं रोजगारं प्राप्नुवन्ति, अपितु ते स्वयम् अपि रोजगार-निर्मातारः भवन्ति। “सीएम युवा योजना” इत्यस्य माध्यमेन अधुना पर्यन्तं प्रदेशे १० सहस्राधिकाः अभिनव-उद्यमाः स्थापिताः सन्ति, यत् दर्शयति यत् युवानां मध्ये उद्यमितायाः प्रति आत्मविश्वासः तीव्रं वर्धते। विशेषतया, युवानः परम्परागत-व्यवसायेभ्यः अग्रे गत्वा नूतन-आधुनिक-क्षेत्रेषु अपि स्वस्य परिचयं निर्मातुम् आरब्धवन्तः।

२५ प्रतिशत उद्यम-स्थापनस्य लक्ष्यं

“सीएम युवा” इत्यस्य नोडल-अधिकारी तथा संयुक्त-आयुक्त-उद्योगः सर्वेश्वर-शुक्लः उक्तवान् यत् एतादृश-योजनाभिः न केवलं रोजगार-अवसराः वर्धिताः, अपितु उत्तरप्रदेशः आत्मनिर्भर-भारतस्य दृष्टेः साकारतायां अपि महत्त्वपूर्णां भूमिकां निर्वहति। तेन उक्तं यत् अद्य पर्यन्तं स्थापितेषु आहत्यउद्यमेषु १० प्रतिशताः अभिनव-मॉडल-आधारिताः सन्ति। मुख्यमन्त्रिणः अभिप्रायानुसारं अस्मिन् वित्तीय-वर्षे एतत् २५ प्रतिशतं प्रति नेतुं लक्ष्यं निर्धारितम् अस्ति।

एतेषु क्षेत्रेषु युवानां विशेषा रुचिः

यदि क्षेत्रानुसारं प्रदत्तान् पश्यामः तर्हि खाद्य-रेस्टोरेंट-व्यवसायः युवानां प्रथम-प्रियः अभवत्, यत्र अधिकतमाः ७६३ उद्यमाः स्थापिताः। तस्मात् अतिरिक्तं कम्प्यूटर-प्रशिक्षणम् (३७०), पैथोलॉजी-नमूना-संग्रहणम् (२६०), शीघ्र-भोजनम् (२५३), फ्रेंचाइजी-आधारित-मॉडलः (२५३), तथा ऑनलाइन-शिक्षणम् (१८९) इत्यादिषु क्षेत्रेषु अपि युवानां सक्रिय-भागीदारी दृश्यते। अन्यत्र व्यायामशाला (१७०), मोबाइल-आईटी तथा डिजिटल-प्लेटफॉर्म (१२०), यात्रा-पर्यटनम् (११७), तथा क्लाउड-किचन (११७) इत्यादिषु नवोदय-क्षेत्रेषु अपि स्टार्टअपाः तीव्रं वर्धन्ते।

लखनऊ, आजमगढ़, हरदोई च शीर्ष-त्रयम्

जनपदानुसारं प्रदर्शनं पश्यन् राजधानी लखनऊ २८७ उद्यमैः सह प्रथम-स्थाने अस्ति। तदनन्तरं आजमगढ़ (२८६), हरदोई (२६२), जौनपुर (प्रायः २५०), अम्बेडकर-नगर (२४१), कानपुर (२३६), वाराणसी (२२९), रायबरेली (२२५), बरेली (२०८), तथा फिरोजाबाद (१९७) इत्येते जनपदाः अभिनव-मॉडल-स्वीकरणे अग्रगण्याः अभवन्। योगी-सरकारस्य एषा पहल प्रदेशे स्टार्टअप-संस्कृतिम् नवीनां दिशां प्रदत्तवती।

वित्तकोषाणां महत्त्वपूर्णा भूमिका

अस्मिन् समग्रे स्टार्टअप-परिस्थितितन्त्रे बैंकानां भूमिका अपि अत्यन्तं महत्त्वपूर्णा आसीत्। उत्तरप्रदेश-ग्रामीण-बैंकः अधिकतमेषु २१३३ अभिनव-मॉडलेषु ऋणं प्रदत्तवान्। तदनन्तरं एसबीआई (१५४९), बैंक-ऑफ-बड़ौदा (११७०), पंजाब-नेशनल-बैंक (१०१८), बैंक-ऑफ-इण्डिया (७७४), सेंट्रल-बैंक-ऑफ-इण्डिया (५८९), केनरा-बैंक (५८५), इण्डियन-बैंक (५७३), यूनियन-बैंक-ऑफ-इण्डिया (३९९), तथा यूको-बैंक (१८२) इत्यादयः अपि युवानां वित्तीय-सहयोगं कृत्वा तेषां स्टार्टअप-उद्यमान् प्रोत्साहितवन्तः।

हिन्दुस्थान समाचार