नीतीशः अद्य प्राप्स्यति दिल्लीं, राज्यसभायाः सदस्यतोत्तरमेव बिहारस्य मुख्यमंत्रिणो भविष्यति निर्णयम्
पटना, ०९ अप्रैलमासः (हि.स.)। नीतीशकुमारः अद्य अपराह्णे १:२० वादने विमानमार्गेण दिल्लीं प्रति प्रस्थितः भविष्यति राज्यसभासदस्यतां स्वीकर्तुम्। गतस्य मार्चमासस्य १६ तमे दिने सः राज्यसभायाः सदस्यत्वेन निर्वाचितः आसीत्। ततः मार्चमासस्य ३० तमे दिने मुख
मुख्यमंत्री नीतीश कुमार की फाइल फोटो


पटना, ०९ अप्रैलमासः (हि.स.)।

नीतीशकुमारः अद्य अपराह्णे १:२० वादने विमानमार्गेण दिल्लीं प्रति प्रस्थितः भविष्यति राज्यसभासदस्यतां स्वीकर्तुम्। गतस्य मार्चमासस्य १६ तमे दिने सः राज्यसभायाः सदस्यत्वेन निर्वाचितः आसीत्। ततः मार्चमासस्य ३० तमे दिने मुख्यमन्त्री विधानपरिषदः सदस्यतायाः त्यागपत्रं दत्तवान्।

अद्य दिल्लीं प्राप्य सः जनता-दल-युनाइटेड्-दलस्य वरिष्ठनेतृभिः सह मन्त्रणां करिष्यति। अस्मिन् विमर्शे बिहारराज्ये नवसरकारे निशान्तस्य जदयू-दलस्य च का भूमिका भविष्यति इति अपि चर्चिता भविष्यति।

जदयू-दलस्य राष्ट्रियकार्यकारी-अध्यक्षः संजय-झा, दलस्य वरिष्ठनेता तथा केन्द्रीयमन्त्री ललन-सिंह, जलसंसाधनमन्त्री विजय-कुमार-चौधरी, जदयू-सांसदाः अन्ये च वरिष्ठनेतारः अपि अस्यां बैठके उपस्थिताः भविष्यन्ति।

अन्यस्मिन् पक्षे बिहारस्य आगामिमुख्यमन्त्रिणः विषयम् अधिकृत्य भारतीय-जनता-पार्टी-अध्यक्षः नितिन-नवीन उक्तवान् यत् कश्चन मतभेदः नास्ति, सर्वं नियोजितकार्यक्रमानुसारमेव प्रवर्तते।

नीतीशकुमारः एप्रिलमासस्य १० तमे दिने राज्यसभायां पदस्य शपथं गृह्णाति। सर्वं तस्यैव नेतृत्वे निर्धारितं क्रियते।

नीतीशकुमारस्य दिल्ली-दौरस्य विषये जदयू-दलस्य वरिष्ठनेता तस्य समीपस्थः विजय-कुमार-चौधरी उक्तवान् यत् मुख्यमन्त्री अद्य दिल्लीं गच्छति, १० तमे दिने राज्यसभासदस्यतां स्वीकुर्यात्, तदनन्तरमेव तस्य त्यागपत्रं भविष्यति।

यदा नीतीशकुमारः बिहारं प्रत्यागच्छति तदा राष्ट्रीय-जनतान्त्रिक-गठबन्धनस्य (राजग) घटकदलेषु उपवेशनं भविष्यति। अस्यां गोष्ठ्यां नवसरकारगठनस्य अन्तिमनिर्णयः क्रियते।

---

हिन्दुस्थान समाचार