Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०९ अप्रैलमास: (हि.स.)। इन्दिरा-गान्धी-राष्ट्रीय-कला-केन्द्रस्य (आईजीएनसीए) अध्यक्षः रामबहादुर-रायः गुरुवासरे अवदत् यत् सीताया: अस्तित्वम् अस्मान् स्मारयति यत् नारी-सशक्तीकरणं बाह्य-परिस्थितिषु आधारितं न भवति। तत् तु आत्मशक्तेः आत्मज्योतिषश्च सतत-रक्षणं कर्तुं प्रवृत्ता आन्तरिक-प्रक्रिया अस्ति।
रामबहादुर-रायः एतत् वचनं देहली-स्थिते आईजीएनसीए-केन्द्रे बुधवासरे सायंकाले ‘वीमेन इन द वूम ऑफ टाइम: अनविलिंग एंशियंट फेमिनिज्म’ (समयस्य गर्भे स्त्रियः : प्राचीन-स्त्री-विमर्शः) इति पुस्तकस्य लोकार्पण-चर्चायाम् उक्तवान्। अस्य ग्रन्थस्य लेखकः मुकुल-कुमारः, प्रकाशकश्च ब्लू-वन-इंक् अस्ति।
रामबहादुर-रायः अवदत्— “अस्माकं संस्कृतौ नार्याः विषये या अवधारणा अस्ति, तस्याः सम्यक् अवगमनाय ‘दुर्गा-सप्तशती’-ग्रन्थस्य ‘नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे। महाबले महोत्साहे महाभयविनाशिनि॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि। प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥’ इत्यस्य अंशस्य पठनम् आवश्यकम्। अस्माभिः भारतीय-नार्यां एतादृशं बलं दृष्टम्।” इति। सः ‘वीमेन इन द वूम ऑफ टाइम’ इत्यस्य अंशं उद्धृत्य अवदत् यत् एतत् वाक्यम् एव अस्य ग्रन्थस्य पूर्णतां प्रदर्शयति। वस्तुतः अयं ग्रन्थः एकेन दृष्ट्या समग्रः भारतीय-इतिहासः एव अस्ति।
डा.सोनल-मानसिंह: अवदत् यत् अस्माकं पारम्परिक-शब्दावल्याः आङ्ग्ल-भाषायां अनुवादः अतीव कठिनम् अस्ति, यतः आङ्ग्ल-भाषा प्रायः तेषां शब्दानां पृष्ठे स्थितां भावनां गाम्भीर्यं च पूर्णतया व्यक्तुं न शक्नोति। तथैव ‘पुराण’ इत्यस्य ‘माइथोलॉजी’ इति शब्दः अपि समुचितः नास्ति। ‘पुराण’ इत्यस्य अर्थः— अतीव प्राचीनाः घटनाः याः सामूहिक-स्मृतौ संरक्षिताः सन्ति। ताः काल्पनिक-कथाः इति वक्तुं अनुचितम्। अतः ‘माइथोलॉजी’ इत्यस्य स्थाने कश्चन उपयुक्तः शब्दः अन्वेष्टव्यः। अस्माभिः स्व-प्राचीन-परम्पराः, विशेषतः जनजातीय-परम्पराः अपि अवगन्तव्याः। एताः केवलं लोककथाः न, अपि तु अद्यापि जीवमानाः परम्पराः सन्ति।
प्रो.मालाश्री-लाल: अवदत् यत् मुकुल-कुमारस्य एषः ग्रन्थः सिद्धयति यत् कश्चन पुरुष-विद्वान् अपि संतुलितया, स्पष्टया, गहन-अनुसन्धान-युक्तया च ईमानदार-दृष्ट्या नारीवादं अवगन्तुं शक्नोति। कालेन सह नारीवादे दुर्भाग्यवशात् एकं विभाजनं उत्पन्नं, यत्र एषः शब्दः तीव्र-आक्रामक-विरोध-रूपेण दृष्टुं आरब्धः।
लेखकः मुकुल-कुमारः अवदत् यत् नारीवादः अथवा स्त्रीत्वं अद्यतन-समये एतादृशी सामाजिक-परिघटना अस्ति या प्रायः सर्वान् संवेदनशीलान् जनान् प्रभावितुं शक्नोति। अस्माकं देशे एषा अधुना प्रमुखासु समाजशास्त्रीय-प्रवृत्तिषु अन्यतमा अस्ति। मम अन्तःकरणे इतिहास-बोधेन सह सम्बद्धः प्रश्नः पुनः पुनः उदेति— नारीवादः एव किमर्थं? पुरुषवादः किमर्थं न? अहं ज्ञातुम् इच्छामि यत् अयं विचारः कुतः आगतः? अस्यैव उद्देश्याय अयं ग्रन्थः लिखितः।
प्रो. रमेश-चन्द्र-गौडः अवदत् यत् अस्मिन् ग्रन्थे कौटिल्यस्य ‘अर्थशास्त्र’-ग्रन्थात् बहूनि उद्धरणानि सन्ति, येन ज्ञायते यत् अद्य यानि कार्यस्थले स्त्रीणां सुरक्षायै अधिनियमाः तथा दिशा-निर्देशाः निर्मीयन्ते, तेषां विषये भारते बहूनि शताब्दानि पूर्वमेव चिन्तनं कृतम्। एषा विस्मयकारिणी सूचना अस्ति।
स्त्री-विमर्शस्य विषये वदन्ती प्रो.सविता-रॉय अवदत् यत् भारतीय-परम्परायां स्त्री-पुरुषौ समदृष्ट्या अवलोक्येते। अतः अस्माभिः स्व-मूलानि प्रति तथा संस्कृतिं प्रति पुनरागमनं करणीयम्।
अस्य कार्यक्रमस्य अध्यक्षतां आईजीएनसीए-न्यासस्य अध्यक्षः रामबहादुर-रायः अकरोत्। अस्मिन् अवसरे पद्म-विभूषणेन सम्मानिता नृत्य-गुरुः तथा पूर्व-राज्यसभा-सांसद् डा.सोनल-मानसिंह:, दिल्ली-विश्वविद्यालयस्य पूर्व-प्राध्यापिका तथा लेखिका प्रो.मालाश्री-लाल:, दिल्ली-विश्वविद्यालयस्य दौलत-राम-महाविद्यालयस्य प्राचार्या प्रो.सविता-रॉय, तथा आईजीएनसीए-केन्द्रस्य डीन एवं कला-निधि-विभागस्य प्रमुखः प्रो. (डा.) रमेश-चन्द्र-गौडः इत्येतै: सह अन्ये अपि गणमान्याः जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता