असम-विधानसभा-निर्वाचनम् तथा पुडुचेरी-विधानसभा-निर्वाचनम् - अभिलेखीयं मतदानम्
नवदिल्ली, ०९ अप्रैलमासः (हि.स.)। असम-राज्ये पुडुचेरी-केन्द्रशासित-प्रदेशे च विधानसभानिर्वाचनस्य मतदाने अद्यपर्यन्तं सर्वाधिकं क्रमशः ८५.३८ प्रतिशतं तथा ८९.८३ प्रतिशतं मतदानं अभिलिखितम्। मतदान-प्रक्रिया अधिकांश-स्थलेषु शान्तिपूर्वा अभवत्। केरल-राज्य
त्रिवेंद्रम में पहली बार के मतदाता को सर्टिफिकेट मिलता हुआ


नवदिल्ली, ०९ अप्रैलमासः (हि.स.)। असम-राज्ये पुडुचेरी-केन्द्रशासित-प्रदेशे च विधानसभानिर्वाचनस्य मतदाने अद्यपर्यन्तं सर्वाधिकं क्रमशः ८५.३८ प्रतिशतं तथा ८९.८३ प्रतिशतं मतदानं अभिलिखितम्। मतदान-प्रक्रिया अधिकांश-स्थलेषु शान्तिपूर्वा अभवत्। केरल-राज्ये अपि ७८.०३ प्रतिशतं मतदानं अभवत्। एतेन सह त्रिषु राज्येषु चतुर्षु विधानसभा-आसनेषु उपनिर्वाचनसम्बद्धं मतदानं सम्पन्नम्।

निर्वाचन-आयोगेन प्रदत्त-जानकार्यानुसारं असम-पुडुचेरी-प्रदेशयोः अस्मिन् वर्षे अभिलेखीयं मतदानं जातम्। पूर्वं असमे ८४.६७ प्रतिशतं (२०१६-विधान-सभानिर्वाचने) तथा पुडुचेरी-प्रदेशे ८६.१९ प्रतिशतं (२०११-विधानसभानिर्वाचने) उच्चतमं मतदानं आसीत्। केरल-राज्ये कुलं ७८.०३ प्रतिशतं मतदानं अभिलिखितम्।

असम-केरल-पुडुचेरी-राज्येषु विधानसभानिर्वाचनाय मतदानं प्रातः ०७ वादने आरब्धम्। एतेन सह कर्नाटक-नागालैण्ड-त्रिपुरा-राज्येषु चतुर्षु विधानसभा-आसनेषु उपनिर्वाचनानि अपि सम्पन्नानि। मतदान-प्रक्रिया सामान्यतः शान्तिपूर्णा अभवत्, केवलं कतिपयाः लघु-घटनाः अभवन्।

असम-राज्ये पुरुष-मतदानं ८४.८० प्रतिशतं, महिला-मतदानं ८५.९६ प्रतिशतं च अभवत्। पुडुचेरी-प्रदेशे पुरुष-मतदानं ८८.०९ प्रतिशतं, महिला-मतदानं ९१.३३ प्रतिशतं च अभिलिखितम्।

उपनिर्वाचनेषु कर्नाटक-राज्यस्य बागलकोट-२४ आसने ६८.७० प्रतिशतं तथा दावणगेरे-दक्षिण-१०७ आसने ६८.५५ प्रतिशतं मतदानं अभवत्। नागालैण्ड-राज्यस्य कोरिडाङ्ग-२८ आसने ८२.२१ प्रतिशतं तथा त्रिपुरा-राज्यस्य धर्मनगर-५६ आसने ८०.०४ प्रतिशतं मतदानं अभिलिखितम्।

आयोगेन उक्तं यत् प्रथमवारं असम-केरल-पुडुचेरी-राज्येषु सर्वेषु मतदान-केन्द्रेषु १०० प्रतिशतं लाइव-वेबकास्टिंग-व्यवस्था कृता। समग्रतः २९६ विधानसभा-क्षेत्रेषु मतदानं सम्पन्नम्, यत्र ५.३१ कोट्यधिकाः मतदातारः पञ्जीकृताः आसन्। मतदानाय ६३,०८४ मतदान-केन्द्राणि निर्मितानि, २.५ लक्षाधिकाः मतदान-कर्मचारिणः नियोजिताः।

सूत्रैः उक्तं यत् गत-पञ्चाशत्-वर्षेषु एतादृशं उच्चं मतदान-प्रतिशतं दर्शयति यत् मतदातारः निर्वाचन-आयोगे दृढं विश्वासं वहन्ति। संविधानस्य अनुच्छेद ३२४ अन्तर्गतं मतदाता-सूचीनिर्माणे तथा निर्वाचन-प्रक्रियायां पारदर्शिता विश्वासं वर्धितवती। अनेन भारतस्य लोकतन्त्रं अधिकं सुदृढं सशक्तं च जातम्।

मुख्य-निर्वाचन-आयुक्तः ज्ञानेश-कुमारः अवदत् यत् २०२६-वर्षस्य असम-केरल-पुडुचेरी-विधानसभानिर्वाचनानि न केवलं भारतस्य, अपि तु विश्व-लोकतन्त्रस्य अपि ऐतिहासिकं उदाहरणम्। तेन सर्वेभ्यः मतदातृभ्यः अभिनन्दनं प्रदत्तं, एषा उपलब्धिः लोकतान्त्रिक-जागरूकतायाः, सहभागितायाः विश्वासस्य च सशक्ता अभिव्यक्तिः इति उक्तम्। सः “निर्वाचन-पर्व, मतदाता-गर्वः” इति सन्देशं पुनरुक्तवान्।

उल्लेखनीयम् यत् अस्यां निर्वाचन-प्रक्रियायां मतदाता-सुविधावृद्धये नूतनाः उपायाः अपि क्रियान्विताः। एतेषु ईवीएम-बैलेट-पत्रे अभ्यर्थिनां वर्णचित्राणि, मोबाइल-निक्षेप-व्यवस्था, नूतन-रूपरेखायुक्ताः मतदाता-सूचना-पत्रिकाः तथा दिव्याङ्ग-मतदातृणां कृते विशेष-सहाय-व्यवस्था इत्यादयः समाविष्टाः।

हिन्दुस्थान समाचार / अंशु गुप्ता