Enter your Email Address to subscribe to our newsletters

बरेली, 09 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य बरेली जनपदे सञ्चालितानां सर्वेषां कीटनाशकविक्रेतॄणां कृते आईपीएमएस पटले पंजीकरणं अधुना अनिवार्यं कृतम् अस्ति। जिला कृषि रक्षा अधिकारी ऋतुषा तिवारी गुरुवासरे अस्य विषये स्पष्टतया उक्तवती यत् पंजीकरणस्य कृते ११ अप्रैलपर्यन्तं अन्तिमः अवसरः प्रदत्तः अस्ति। तदनन्तरं ये विक्रेतारः पंजीकरणं न करिष्यन्ति, तेषां कीटनाशक-लाइसेंसः निरस्तः कर्तुं शक्यते।
जिला कृषि रक्षा अधिकारिणः अनुसारं भारत सर्वकारस्य कृषि एवं किसान कल्याण मंत्रालय द्वारा एकीकृत कीटनाशक प्रबन्धन प्रणालीपटलस्य सञ्चालनं क्रियते। अस्य अन्तर्गतं सर्वेषां कीटनाशकविक्रेतॄणां ऑनलाइन-पंजीकरणं अनिवार्यम् अस्ति। विभागेन पूर्वमपि अनेकेषु अवसरिषु पत्राणि निर्गत्य विक्रेतॄन् आईपीएमएस पटले पंजीकरणं कर्तुं निर्देशाः दत्ताः आसन्।
कार्यालयात् ४ जुलाई २०२५, २० नवम्बर २०२५, २४ मार्च २०२६ तथा ३० मार्च २०२६ इति तिथिषु पत्राणि निर्गतानि, तथापि बहवः विक्रेतारः अद्यापि पटले पंजीकरणं न कृतवन्तः। एतत् दृष्ट्वा अधुना अन्तिम चेतावनी निर्गता अस्ति।
विभागेन उक्तं यत् सर्वे विक्रेतारः ११ अप्रैल २०२६ पर्यन्तं अनिवार्यतया स्वपंजीकरणं सम्पन्नं कुर्वन्तु। निर्धारितकालात् अनन्तरं येषां पंजीकरणं न भविष्यति, तेषां लाइसेंस-निरसनस्य कार्यवाही क्रियते, तस्य च पूर्णा जिम्मेदारी सम्बद्धविक्रेतॄणामेव भविष्यति।
पंजीकरणस्य कृते विक्रेतारः आइपीएम एस पटलस्य वेबसाइटं गत्वा मुख्यपृष्ठे इति विकल्पं क्लिक् कुर्वन्तु। ततः Sign Up कृत्वा नवीन-पंजीकरण-प्रपत्रं पूरयितव्यम्। फर्मसम्बद्धां सूचनां पूरयित्वा एकं आईडी निर्मास्यते, यत् विभागीयस्तरे अनुमोदितं भविष्यति।
यदि कस्यचित् विक्रेतुः पंजीकरणे काचित् समस्या भवति, तर्हि सः जिला कृषि रक्षा अधिकारी कार्यालये कीटनाशक-लाइसेंस-पटल-सहायकं सम्पर्कितुं शक्नोति।--------
हिन्दुस्थान समाचार