Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 अप्रैलमासः (हि.स.)।सिखधर्मस्य पञ्चमः गुरुः अर्जनदेवस्य प्रकाशपर्वणि लोकसभाध्यक्षः ओम बिरला गृहमन्त्री अमित शाह रक्षामन्त्री राजनाथ सिंह च सहिताः अनेके नेतारः गुरुवासरे अभिनन्दनानि शुभाशंसाश्च अददुः।
ओम बिरला इत्यनेन एक्स माध्यमे प्रकाशिते सन्देशे पञ्चमं सिखगुरुं अर्जनदेवं प्रणम्य शुभाशंसाः प्रदत्ताः। स उक्तवान् यत् सत्यधर्ममानवतायाः कृते स्वप्राणान् अर्पितवन्तः गुरुसाहिबस्य जीवनम् अद्यापि त्यागसहिष्णुताप्रेममानवकल्याणस्य सन्देशं ददाति।
गृहमन्त्री अमित शाह अपि शुभाशंसाः दत्त्वा उक्तवान् यत् महान् सन्तः गुरुः अर्जनदेवः मुगलाक्रमणकारिभ्यः अनेकाः यातनाः असहन्त तथापि धर्मपरिवर्तनस्य स्थाने स्वप्राणबलिदानं कृत्वा स्वधर्मस्वसंस्कृतेः रक्षणस्य आदर्शं स्थापितवान्। तेन गुरुग्रन्थसाहिबस्य संकलनं स्वर्णमन्दिरस्य निर्माणं च कृत्वा सिखधर्मस्य प्रसारः कृतः। तस्य जीवनम् अन्यायात्याचारयोः विरुद्धे दृढतया स्थित्वा धर्मनैतिकताआध्यात्मिकतायाः मार्गे गन्तुं प्रेरयति।
रक्षामन्त्री राजनाथ सिंह उक्तवान् यत् सिखसम्प्रदायस्य जनजनपर्यन्तं प्रसारे गुरोः महती भूमिका आसीत्। गुरुग्रन्थसाहिबस्य संकलनेन तेन महत्त्वपूर्णं योगदानं कृतम्। स्वसंस्कृतेः रक्षणार्थं तेन स्वप्राणबलिदानं कृतम्। तस्य जीवनं उदारतायाः त्यागस्य बलिदानस्य च प्रेरणाम् ददाति।
कृषिमन्त्री शिवराज सिंह चौहान उक्तवान् यत् धर्मरक्षणमानवकल्याणयोः कृते स्वजीवनं समर्पितवन्तं पञ्चमं सिखगुरुं अर्जनदेवं प्रणमामि। तस्य पुण्यविचाराः शिक्षाः उपदेशाश्च सर्वदा अस्मान् धर्ममार्गे मानवसेवायां च प्रेरयन्तु।
विधि न्याय राज्यमन्त्री अर्जुनराम मेघवाल उक्तवान् यत् गुरोः अर्जनदेवस्य जीवनं सेवा त्याग मानवकल्याणस्य प्रतीकं अस्ति। तस्य विचाराः अस्मान् सत्यसहिष्णुताधर्मनिष्ठायाः मार्गे दृढतया अग्रे नेतुं प्रेरयन्ति।
मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादव उक्तवान् यत् त्यागसेवासमर्पणसहिष्णुतायाः प्रति तस्य प्रेरणा सम्पूर्णविश्वस्य कल्याणस्य स्रोतः अस्ति। मानवताभ्रातृत्वसत्यस्य मार्गे गन्तुं तस्य सन्देशः समाजाय नवीनां दिशां ददाति।
दिल्लीमुख्यमन्त्री रेखा गुप्ता अपि शुभाशंसाः दत्त्वा उक्तवती यत् गुरुसाहिबस्य जीवनं त्यागस्य अटूटविश्वासस्य मानवसेवायाः च अद्वितीयं उदाहरणम् अस्ति। तेन आदि ग्रन्थसाहिबस्य संकलनं हरिमन्दिरसाहिबस्य निर्माणं च कृत्वा विश्वाय शान्तिसद्भावयोः मार्गः दर्शितः। तस्य शिक्षाः सर्वकल्याणभावना च अस्मान् सर्वदा मार्गदर्शयन्तु।
उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी उक्तवान् यत् गुरुः अर्जनदेवः धर्ममानवकर्तव्यनिष्ठायाः प्रतीकः अस्ति। तस्य जीवनं सेवा समर्पण त्याग सत्यनिष्ठायाः अद्वितीयम् उदाहरणम् अस्ति। तस्य दिव्यशिक्षाः अस्माकं मार्गदर्शकाः भविष्यन्ति।
------------
हिन्दुस्थान समाचार