विद्यालयीयशिक्षा मंत्रिणो गजेंद्र यादवस्य अध्यक्षतायां प्राचार्याणां राज्य स्तरीयोपवेशनमद्य
रायपुरम्, 09 अप्रैलमासः (हि.स.)। छत्तीसगढ़े सञ्चालिताः “स्वामी आत्मानन्द उत्कृष्ट अङ्ग्रेजी तथा हिन्दी माध्यम विद्यालयाः” इत्येषां शैक्षणिककार्याणां अधिकप्रभावी तथा गुणवत्तापूर्णकरणस्य उद्देशेन अद्य गुरौ दिने पं. दीनदयाल ऑडिटोरियम्, साइन्स् कॉलेज्
स्कूल शिक्षा मंत्री गजेंद्र यादव


रायपुरम्, 09 अप्रैलमासः (हि.स.)।

छत्तीसगढ़े सञ्चालिताः “स्वामी आत्मानन्द उत्कृष्ट अङ्ग्रेजी तथा हिन्दी माध्यम विद्यालयाः” इत्येषां शैक्षणिककार्याणां अधिकप्रभावी तथा गुणवत्तापूर्णकरणस्य उद्देशेन अद्य गुरौ दिने पं. दीनदयाल ऑडिटोरियम्, साइन्स् कॉलेज् ग्राउण्ड्, रायपुरे प्राचार्याणां राज्यस्तरीया गोष्ठी आयोजिता भविष्यति।

एषा गोष्ठी विद्यालयशिक्षामन्त्रिणः गजेन्द्र यादवस्य अध्यक्षतायां सम्पन्ना भविष्यति। अस्यां महत्वपूर्णायां बैठके राज्यस्य सर्वेभ्यः प्रायः ७५१ विद्यालयेभ्यः प्राचार्याः सहभागिनः भविष्यन्ति।

बैठके आगामिशैक्षिकसत्रस्य कृते बोर्डपरीक्षाफलानां लक्ष्यनिर्धारणम्, NEET तथा JEE इत्यादिषु प्रतियोगीपरीक्षासु छात्राणां सहभागिता तथा सफलता वर्धयितुं रणनीतिः इत्यादिषु विषयेषु विस्तरेण चर्चा भविष्यति।

तदनन्तरं प्रवेशप्रक्रियायाः सुव्यवस्थापनम्, छात्राणां अङ्ग्रेजीभाषादक्षतायाः उन्नयनम्, पीटीएउपवेशनानां समीक्षा, पालकानां तथा अधिकारिणां भूमिकायाः सुदृढीकरणम् इत्यादिषु विषयेषु अपि विचारविमर्शः क्रियते।

उपवेशने सहशैक्षणिकक्रियाकलापानां प्रोत्साहनम्, विद्यालयेषु आकर्षकं आधुनिकं च शैक्षणिकपर्यावरणस्य विकासः, स्मार्टक्लास् तथा पुस्तकालयस्य प्रभावी उपयोगः, शैक्षणिकगुणवत्तायाः उन्नयनम् तथा नवाचारक्रियाकलापानां प्रोत्साहनम् इत्येषु विषयेषु विशेषः बलः दास्यते।

लोकशिक्षणसञ्चालनालयेन सर्वेभ्यः जिलाशिक्षाधिकारीभ्यः निर्देशाः दत्ताः यत् ते स्वस्वजिलानां सर्वेषां सम्बन्धितप्राचार्याणां अनिवार्योपस्थितिं सुनिश्चितवन्तु।

---------------

हिन्दुस्थान समाचार